SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ २५४ ] बृहद्वृत्ति - लघुन्याससँवलिते [ पाद. १ सू. १९६-१९७ ] कुल्मासाः प्रायेण प्रायो वान्नमस्यां पौर्णमास्यां कोल्मासी । कुल्माष इति मूर्धन्योपान्त्योप्यस्ति । १९५ । वटकादिन् ।। ७. १. १९६ ॥ वटकशब्दात्प्रथमान्तात्प्रायोऽन्नमस्मिन्नित्यर्थे इन् प्रत्ययो भवति नाम्नि कानि प्रायेण प्रायो वान्नमस्यां पौर्णमास्यां वटकिनी ।१९६। साक्षाद्रष्टा ।। ७. १. १९७ ।। साक्षाच्छन्दाद्द्द्रष्ठैत्यस्मिन्नर्थे इन् प्रत्ययो भवति । • साक्षाद्रष्टा साक्षी, साक्षिणौ, साक्षिणः । ' प्रायोऽव्ययस्य इत्यन्त्यस्यरादिलोपः ॥ नाम्नीत्येव ? साक्षाद्द्रष्टा ॥१९७॥ (७-४-६५) इत्याचार्यश्री हेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनबृहद्वृत्तौ सप्तमस्वाध्यायस्य प्रथमः पादः समाप्तः ७. १ ।। लब्धलक्षा विपक्षेषु विलक्षास्त्वयि मार्गणाः । तथापि तव सिद्धेन्द्र दातेत्युक्तं घरं यशः ॥१॥
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy