SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ २४४ ] बृहवृत्ति-लघुन्याससंबलिते [पाद. १ सू. १५४ ] ध्यादेः संख्याशब्दाद्गुणवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठयर्थे मयट् प्रत्ययो भवति स चेत् षष्ठ्यर्थो मूल्यं क्रेयं वा भवति । द्वौ गुणावेषां मूल्यभूतानां यवानामुदश्वितः द्विभया यवा उदश्वितो मूल्यम्। त्रिमयाः, चतुर्मयाः । द्वौ गुणावस्योदश्वितः केयभूतस्य द्विमय मुदश्विद्यवानाम् केयम्, त्रिमयम्, चतुर्मयम् । ब्यादेरिति किम् ? एकगुणा यवा उदश्वितो मूल्यम् एकगुणमुदश्विधवानाम् क्रेयम् । गुणादिति किम् ? उदश्वितस्त्रयाणां भागानां द्वौ भागौ यवानां मूल्यभूतानाम् । यवानां त्रयाणां भागनां द्वौ भागौ उदश्वितः क्रेयस्य । द्वौ गुणाविति क्रेयं मूल्यं चैकगुणं कृत्वा तदपेक्षया मूल्यक्रेययो_िस्तावत्तोच्यते । मूल्यक्रेय इति किम् ? द्विगुणं क्षीरं तैलस्य पाक्यस्य ।१५३। ___ न्या० स० द्वयादे०-मूल्ये केये वेति यदा मूल्ये संख्याशब्दस्तदा केयः प्रत्ययार्थः, केये तु मूल्यं प्रत्ययार्थः। प्रत्ययार्थविशेषणमिति पूर्व तु प्रकृति विशेषणम् । गुणादिति किम् -भागादिति क्रियतामित्यर्थः । द्वौ भागौ यवानामिति यत्र साक्षात् गुणः प्रयुज्यते तत्र भवतीति भागशब्दप्रयोगे माभूदित्यर्थः। अधिकं तत्संख्यमस्मिन् शतसहस्रे शतिशदशान्ताया डः ॥७. १. १५४ ॥ संख्याया इति वर्तते तदिति च तदिति प्रथमान्तात् शतिश द्दशन इत्येवमन्तात्संख्याशब्दादस्मिन् इति सप्तम्यर्थे शते सहस्रे च ड: प्रत्ययो भवति यत्तत् प्रथमान्तं तच्चेदधिकं तत्संख्यं च भवति, सा शतसहस्रलक्षणा संख्या यस्य योजनादेस्तत्तत्संख्यं शतं सहस्रमिति च यत्संख्यायते तदेव यद्यधिकमपि भवतीत्यर्थः । . योजनानां विंशतिर्योजनानि वा विंशतिरधिकास्मिन्योजनशते शते वा योजनेषु विशं योजनशतम् विशं शतं योजनानि, एवं विशं योजनसहस्रम विशं सहस्रं योजनानि, विशं कार्षापणशतम् विशं शतं कार्षापणानि, विशं कार्षापणसहस्रम् विशं सहस्रं कार्षापणानि । संख्यासमुदायोऽपि संख्येव संख्यायतेऽनयेति कृत्वेत्वत्रापि भवति । एकविंशति एकविंशम् द्वाविंशं शतम, शत्, त्रिंशं शतं त्रिंशं सहस्रम्, एकत्रिंशम्, चत्वारिंशम्, पञ्चाशम्, दशन, एकादशं शतम्, एकादशं सहस्रम् द्वादशम् त्रयोदशम् शतं सहस्रम् वा, योजनादीनामिव शतानामपि सहस्रे भवति । विशतिः शतान्यधिकान्यस्मिन
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy