SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ ( पाद. १. सू. १४५-१४८ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [२४१ अन्ये तु रूढप्रमाणान्तादेव द्विगोरिच्छन्ति तन्मते द्विप्रस्थमात्रम् द्विपलमात्रं द्विशतमात्रं स्यादित्यादौ लुप् न भवति ।१४४॥ न्या० स० द्विगो:०-उपचरितप्रमाणादिति पुरुषशब्दस्य हि प्रमाणत्वमुपचरितमेव न साक्षात् प्रमाणमेव । लुप् स्यादिति तदभावे च डीन स्यात् । द्विशम इति ‘मात्रट्' ७-१-१४५ इति मात्रद संशयविवक्षायां सर्वत्र, अन्यत्र यथासंभवं मात्रट् दघ्नट् यसद् च, एवं सर्वत्र । द्विपुरुषीति अत्र 'हस्तिपुरुषाद्वाऽण् ' ७-१-१४१, न, तत्र तदन्तविधेरनाश्रयणादिति मात्रडादेर्लुप् । मात्रद ॥ ७. १. १४५॥ मानात् संशये इति च वर्तते, तदिति प्रथमान्तान्मानवाचिनो नाम्नः षष्ठयर्थे मात्रट् प्रत्ययो भवति संशये । प्रस्थो मानमस्य स्यात् प्रस्थमात्रम् धान्यम्, प्रस्थमात्रा वीहयः, कुडवमात्रम्, पलमात्रम्, कर्षमात्रम्, पञ्चमात्राः, शतमात्राः, शतमात्रम्, दिष्टिमात्रम् । मात्रदनद्वयसानि नामान्यपि सन्ति । अनुबन्धासञ्जनार्थं तु प्रत्यय विधानम्, तेन च स्त्रियां विशेषः। वैश्वदेवमात्रा भिक्षा ।१४५। न्या० स० मात्र०-वैश्वदेवमात्रेति विश्वे देवा देवता अस्याण् वैश्वदेवो मात्रं मात्राऽवास्याः । शनशद्धिशतेः ॥ ७. १. १४६ ॥ शन्नन्ताच्छदन्ताच्च संख्याशब्दाद्विशतिशब्दाच्च मानवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठयर्थे संशये गम्यमाने मात्र प्रत्ययो भवति, डिनोऽपवादः । दश मानमेषां स्यात् दशमात्राः, पञ्चदशमात्राः, त्रिंशन्मात्राः, त्रयस्त्रिशन्मात्राः विंशतिमात्राः ।१४६। डिन ॥ ७. १. १४७ ।। ___ संशये इति निवृत्तम्, योगविभागात् । शन्नन्ताच्छदन्ताच्च संख्याशब्दाद्विशतिशब्दाच्च मानवृत्तेस्तदिति प्रथमान्तादस्येति षष्ठयर्थे डिन् प्रत्ययो भवति । पञ्चदशाहोरात्राः परिमाणमस्य पञ्चदशी अर्धमासः, पञ्चदशिनी, पञ्चदशिनः, एवं त्रिशी त्रिशिनौ त्रिंशनो मासाः । त्रयस्त्रिशिनो देवविशेषाः, विशिनो भवनेन्द्राः ।१४७। न्या० स० डिन्०-योगविभागादिति अन्यथा शनशद्विशतेर्डिन्वेत्येक एव योगः क्रियेत । - इदंकिमोऽतुरिय् किय् चास्य ॥ ७. १. १४८ ॥ .. तदस्य मानादिति वर्तते, तदिति प्रथमान्तादिदंशब्दात् किंशब्दाच्च
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy