SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ [ पाद १. सू. ५८-५९] श्रीसिद्धहेमचन्द्रशब्दानुशासने सप्तमोऽध्यायः [ २१९ समस्थ, विषमस्थ, पुरस्थ, परमस्थ, मध्यस्थ, मध्यमस्थ, दुष्पुरुष, कापुरुष, विशाल इति बुधादिः, एभ्यो नञ्तत्पुरुषेभ्यो राजादित्वात् टयण् । गडुलविशस्तदायादानामपि पाट केचित् इच्छन्ति । अन्ये तु बुधादीनामष्टानामेव प्रतिषेधमिच्छन्ति, एषामेव च विकल्पमपरे । अथ टयणन्तानामेषां नसमासो भवति वा नवा बुधस्य भावः कर्म वा बौध्यम् न बौध्यम अबौध्यमिति । भवतीत्येके, न भवतीत्यन्ये ।५७। न्या० स० नञ् तत्० -- अत्र वयोवचनेति स्थटिरशब्दस्य केवलस्यैव युवादौ पाठादत्र नम्पूर्वस्य वयोलक्षणस्यान एव प्राप्तिस्तेनास्थाविरमित्यत्र युवाद्यण् । __ अत्रैहायनमिति त्रयो हायना यस्य गृहस्य त्रिहायनस्य भावः, अत्रावयोऽर्थत्वात् 'चतुस्नेहयनस्य वयसि ' २-३-७४ इति न णत्वम् । पृथ्वादेरिमन् वा ॥ ७. १. ५८ ॥ पृथ इत्येवमादिभ्यस्तस्य भावे इमन् प्रत्ययो वा भवति । प्राक्त्वादित्यधिकारात् त्वतलौ च, वावचनाद्यश्चाणादिः प्राप्नोति सोऽपि भवति । पृथोर्भाव: प्रथिमा पृथुत्वं पृथुता पार्थवम् , म्रदिमा मृदुत्वं मृदुता मार्दवम्, बहुलस्य भावो बंहिमा । इमनि बहुलस्य 'प्रियस्थिर' (७-४-३८ ) इत्यादिना बहभावः, बहुलत्वं बहुलता बाहुल्यम् । टयण् । वत्सिमा, वत्सत्वं, वत्सता वात्सं, वयोलक्षणोऽञ् । पृथु, मृदु, पटु, महि, तनु, लघु, बहु, साधु, आशु, उरु, गुरु, खण्डु, पाण्डु, बहुल, चण्ड, खण्ड, अकिंचन, बाल, होड, पाक, वत्स मन्द, स्वादु, ऋजु, वृष, कटु, हस्व, दीर्घ, क्षिप्र, क्षुद्र, प्रिय, महत्, अणु, चारु, वक्र, वृद्ध, काल, तृप्त, इति पृथ्वादिः ।५८॥ वणेदहादिभ्यष्टयण च वा ॥ ७. १. ५९ ॥ वर्णविशेषवाचिभ्यो दृढादिभ्यश्च तस्य भावे टयण इमन च इत्येतौ प्रत्ययौ वा भवतः, प्राक्त्वादित्यधिकारात् त्वतलौ च । वावचनाद्यश्चाण प्राप्नोति सोऽपि भवति । शुक्लस्य भावः शौक्ल्यं शुक्लिमा शुक्लत्वं शुक्लता, कायं कृष्णिमा कृष्णत्वं कृष्णता, काद्रव्यं कद्रिमा कद्रुत्वं कद्रुता, शितेर्भावः शैत्यं शितिमा शितित्वं शितिता शैतम्, वावचनावृवर्णान्तस्य पाञ्चरूप्यम् । दृढादि, द ढयं द्रढिमा दृढत्वं दृढता, वाढयं वढिमा वृढत्वं वृढता, पारिवढयं परिवढिमा परिवृढत्वं परिवृढता, वैमत्यं विमतिमा विमतित्वं विमतिता वैमतम्, सांमत्यं संमतिता संमतित्वं संमतिता सांमतम्, य्ववर्णान्तलक्षणोऽण् टकारो
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy