________________
[पाद. १ सू. ५५-५६ ] श्रीसिद्धहेमचन्द्राशब्दानुशासने षष्ठोध्यायः [ २१७ कोऽर्थोऽध्यवसित आरोपितो भेदो यस्य स्वरूपस्य तदध्यवसितभेदं तत्र कया.? डित्थशब्दवाच्यतया, डित्थशब्देन वाच्यत्वेन कोऽर्थः ? डित्थशब्दस्य यदेव स्वरूपं प्रवृत्तिनिमित्तं तदेवाश्रित्य डित्थशब्दः प्रवृत्त इत्यर्थः, ततो डित्थशब्दवाच्यतया कृत्वा अध्यवसितभेदे आरोपितभेदे । कोऽर्थः १ स्वरूपमेव विशेष्यं विशेषणं चाऽत्र यतो भावो वर्तते इति विशेषणं कस्य डित्थस्य, इदं च विशेष्यं, न हि डित्थशब्दाव्यतिरिक्तं किंचिद्भावशब्देनाभिधीयते अपि तर्हि तदेव परमध्यवसितभेदात्तदेव विशेष्यं विशेषणं च भवति ।
___किं विशिष्टेऽध्यवसितभेदे ऽव्यतिरिक्तेऽपि व्यतिरिक्त इव क इव यथा शिलापुत्रकस्य शरीरमित्यत्राव्यतिरिक्तेऽपि वस्तुनि व्यतिरिक्ते प्रत्ययो जायते तथात्रापि, परं कस्मादित्याहशब्दप्रत्ययबलात् बुद्ध्यावगृहीते शब्देन कृत्वा प्रत्ययो ज्ञानं तबलात् ।
अत्रैव प्रस्तावे गोजाते वो गोत्वं गोतेति गोशब्दस्य स्वरूपमित्युक्तं, ततश्च गोशब्दस्य स्वरूपं कोऽर्थो गोजातेः स्वरूपमिति हि किलात्रार्थः । ननु गोशब्दस्य स्वरूपमित्युक्ते गोजातेः स्वरूपमिति कथं लभ्यत ? इत्याह -शब्दार्थयोरभेदेन जातिलक्षणोऽर्थस्ततो जातिलक्षणेनार्थेन गोशब्दस्याभेदः, य एव गोशब्दः स एव जातिलक्षणोऽर्थ इति, अत एव शब्दस्वरूपं प्रवृत्तिनिमितं कोऽर्थः ? गोशब्दस्य स्वरूपं जातिस्तदेव प्रवृत्तिनिमित्तम् । ___अवस्थाभेदभिन्न व्यक्तिसमवेतमिति नित्यमेकमनेकर्वृत्ति सामान्यमित्यनेकवृत्तित्वज्ञापनायाहवयो बाल्ययौवनवार्धकलक्षणमिति मान्द्यकायलम्बकर्णादयो भेदा अवस्थाः, एवमुत्तरेषु भावना कार्या।
उपच रतभेदव्यक्तिसमवेतमिति आकाशदिशोरेकत्वादुपचार आश्रीयते, अत्र गर्गादय इति लक्षणस्य प्रवृत्तिरेव नास्ति तत्कथमादिशब्देनोपचारो गृह्यते, यतस्तद्धितप्रत्ययान्तोऽपि तदा गर्गशब्दो नास्ति ?
उच्यते, तद्धितप्रत्ययान्तत्वं योग्यतया व्याख्यातव्यं ततो योग्यतयाऽत्राप्यस्ति । सहविवक्षायामिति युगपद्विवक्षायामित्यर्थः, सा च कथमित्युच्यते, गर्गशब्देनापि सोऽप्यभिधीयते. गर्गस्यापत्यानि गर्गाश्चेत्यनया विवक्षया, स एवेति कृत्वाऽभिन्नस्वरूपत्वम् युगपदपत्यजनपदाभिधायिन इति युगपदभिधायित्वं च कथम् ? इत्युच्यते, पञ्चालस्यापत्यानि पञ्चालाः, द्वितीयपचालशब्दस्तु प्रत्ययरहितो जनपदवाची ततः पचालाश्च पञ्चालाश्चेत्येकशेषे कृते युगपदभिधानं भवति ।
प्रवृत्तिनिमित्तसंघात इति अपत्यजनपदरूपः । अक्षत्वमिति अक्षशब्देनेन्द्रियपाशबिभीतकादीन्यच्यन्ते, पादशब्देन चरणकिरणश्लोकचतुर्था शप्रत्यन्तपर्वताः, माषशब्देन धान्यविशेषदशार्द्धगुञ्जवृक्षविशेषा उच्यन्ते, तत एकशेषे स्वप्रत्ययः ।
ननु यथा धवखदिरवमिति दृष्टान्त उक्तस्ततश्चात्र जातिसंहतिर्वाच्या कथंभ वति, यतः समासकृत्तद्धितात्तु संबन्ध इति लक्षणात् संबन्ध एव प्रवृत्तिनिमित्तं प्राप्नोति ?
उच्यते. प्रायिकमेतत् ज्ञातव्यं, ततो द्वंद्वेऽपि संबन्धो नाभिधीयते किन्तु जातिसंहतिरेवोच्यते ।
त्वे वेति वचनादिति 'प्राग्वतः स्त्रीपुंसा०' ६-१-२५ इत्यस्मादप्रेतनेन सूत्रेणेत्यर्थः । प्राक्त्वादगडुलादेः ॥ ७. १. ५६ ॥ स्वतलित्यनुवर्तते, ब्रह्मणस्त्व इत्यत्र यत्त्वसंशब्दनं तस्मात् प्राक् त्वतल