SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ २१२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. १ सू० ४५-४८ ] मत्रादितया परिणमति न तु तदर्थम् अथवा तदर्थे इति चतुर्थीविशेषणम् । तदर्थे या चतुर्थी तदन्तात्प्रत्ययः, इह तु संपद्यतौ चतुर्थीति न भवति । तस्मै इत्येव ? सक्तूनां धानाः, धानानां यवाः । अत्र सत्यपि तादर्थ्य संबन्धमात्रविवक्षायां षष्ठी यथा गुरोरिदं गुर्वर्थमिति । भवति च सतोऽप्यविवक्षा यथानुदरा कन्येति ।४४। न्या० स० परि० अथवेति पूर्व हि तदर्थे इति परिणामिशब्दस्य विशेषणम् । चर्मण्यञ् ॥ ७. १. ४५ ।। तस्मै इति चतुर्थ्यन्तात्परिणामिनि तदर्थे चर्मण्यभिधेये अञ् प्रत्ययो भवति । वर्धायेदं वार्धम् चर्म, वरत्राय इदं वारत्रं चर्म, रथोपस्थायेदं राथोपस्थं चर्म, हलाबन्धायेदं हालाबन्धं चर्म । सनङ्गके इदं सनङ्गव्यं चर्मेति 'उवर्णयुगादेर्यः' (७-१-३०) इति यग्रहणाद्य एव भवति । सनङ्ग श्चर्मविकारः ।। ४५॥ • न्य० स० चर्म०-राथोपस्थमिति अत्राधिकारायातत्वात् परिणामिनीति योजितमपि यथासंभवं योज्यं, तेनाऽत्र चर्मणो रथोपस्थरूपेण परिणामाभावेप्यञ् भवति । सनगवे इति अङ्गेषु सन्नं 'राजदन्तादिषु' ३-१-१४९ इति सप्तम्यन्तस्य परनिपातः, पृषोदरादित्वात् सनगुशब्द आदेशः । चर्मविकार इति स्थालादीनां रक्षार्थ कोशः । ऋषभोपानहायः ।। ७. १. ४६ ॥ ऋषभ उपानह इत्येताभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे अभिधेये ज्यः प्रत्ययो भवति । ऋषभाय अयम् आर्षभ्यो वत्सः, औपानह्यो मुञ्जः, औपानाम् काष्ठम् औपानां चर्मेति चर्मण्यपि परिणामिनि परत्वादयमेव भवति ।४६। छदिलेरेयण ॥ ७. १. ४७ ।। छदिस बलि इत्येताभ्यां चतुर्थ्यन्ताभ्यां परिणामिनि तदर्थे एयण प्रत्ययो भवति । छदिषे इमानि छादिषेयाणि तृणानि, बलये इमे बालेयास्तण्डुलाः, चर्मण्यपि परत्वादयमेव भवति । छादिषेयं चर्म । कथमौपधेयः, उपधोयत इत्युपधेयः । स एव प्रज्ञाद्यणि स्वाथिके औपधेयः। उपधिः रथाङ्गमिति यावत्, अत उपधेः स्वार्ये एयणिनि नारम्भणीयम् ।४७। परिखास्य स्यात् ।। ७. १. ४८।। परिखाशब्दान्निर्देशादेव प्रथमान्तादस्येति षष्ठयर्थे परिणामिनि एयण्
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy