SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ पाद. ४. सू. १०६-१०९] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठोऽध्यायः [१८१ तं भाविभूते ॥ ६. ४. १०६ ॥ ___ कालादिति वर्तते, तमिति द्वितीयान्तात्कालवाचिनो भाविनि भूते चार्थे इकण् प्रत्ययो भवति । स्वसत्तया व्याप्स्य मानकालो भावी, व्याप्त कालो भूतः । मासं भावी मासिक उत्सवः, मासं भूतो मासिको व्याधिः ।१०६। न्या० स० तं भा०-व्याप्यस्यमानेति व्याप्स्यमानः कालो येन भाविना उत्सवेन स व्याप्स्यमानः कालो भावी। व्याप्तकाल इति अत्रापि स्वसत्तयेत्यपेक्ष्यते. ततश्च भतभाविनोऽर्थस्य स्वया सत्तया व्याप्स्यमानः कालो येन भूतभाविनाऽर्थेन स तथोक्तः, इह काल इति यः काले वर्त्तते ततः प्रत्ययः उत काल एव वर्तते, कालान व्यभिचति ततः प्रत्ययः । किंचातः यदि काले यो वर्तते ततः प्रत्ययो रमणीयं वर्ष भूतः शोभनं वर्षे भूत इति रमणीयादेरपि प्राप्नोति. यदा यः काल एव वर्त्तते ततः प्रत्ययः तदा षष्टि वर्षाणि भूतो षाष्टिकः द्विषष्टिं वर्षाणि भूतो द्विषाष्टिकः साप्ततिको द्विसाप्ततिक इति न स्यात् , तत्र संख्यायाः कालवृत्तेः प्रत्ययो वक्तव्यः ? ___ उच्यते, यः काले वर्तते ततः प्रत्ययः तेन पाष्टिक इत्यादौ कालवृत्तेः संख्याया प्रत्ययः सिद्धो भवति, रमणीयं वा भूत इत्यादौ त्वनभिधान्चान्न भवति । तस्मै भृताधीष्टे च ।। ६. ४. १०७ ॥ कालादिति वर्तते, तस्मै इति तादर्थ्यचतुर्थ्यन्तात्कालवाचिनो भृतेऽधीष्ट चार्थे इकण् प्रत्ययो भवति । भृतो वेतनेन क्रीतः, अधीष्टः सत्कृत्य व्यापारितः, मासाय भृतः मासिकः कर्मकरः, मासं कर्मणे भृत इत्यर्थः। मासायाधीष्टो मासिक उपाध्यायः । मासमध्यापनायाधीष्ट इत्यर्थः । एवं वार्षिकः, सांवत्सरिकः, चकारस्तेन निर्वृत्ते तं भाविभूते तस्मै भृताधीष्ट घेति सूत्रत्रयस्याप्युत्तरत्रानुवृत्त्यर्थः ।१०७।। षण्मासादवयसि ण्येकौ ॥ ६. ४. १०८॥ षण्मासशब्दात्कालबाचिनस्तेन निवृत्ते त भाविभूते तस्मै भताधीष्टे चेत्यस्मिन्विषयेऽवयसि गम्यमाने ण्य इक इत्येतो प्रत्ययो भवतः, षड्भिर्मासैनिर्वृत्तः षण्मासान् भावी भूतो वा षण्मासेभ्यो भृतोऽधीष्टो वा पाण्मास्यः, षण्मासिकः । अवयमीति किम् ? षण्मासान् भूत: षण्मास्यः, षण्मासाद्यय. णिकण्' (६-४-११५) इति यः ।१०८। समाया इनः ॥ ६. ४. १०९ ॥ समाशब्दात्तेन निवृत्त इत्यादिपञ्चकविषय ईन: प्रत्ययो भवति, समया निर्वृत्तः समां भूतो भावी वा समायै भृतोऽधीष्टो वा समीनः ।१०९।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy