SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्यास संवलिते नवयज्ञादयोऽस्मिन्वर्तन्ते ॥ ६. ४. ७३ ॥ नवयज्ञादिभ्यः प्रथमान्तेभ्यो वर्तन्त इत्येवमुपाधिभ्योऽस्मिन्निति सप्त म्यर्थे इकण् प्रत्ययो भवति, नवा यज्ञा अस्मिन्वर्तन्ते नावयज्ञिकः । पाकयज्ञिकः, नवयज्ञादयः प्रयोगगम्याः ॥७३॥ १७४ ] [ पा० ४. सू० ७३-७७ ] तत्र नियुक्ते ॥ ६. ४. ७४ ॥ तत्रेति सप्तम्यन्तान्नियुक्तेऽर्थे इकण् प्रत्ययो भवति, नियुक्तोऽधिकृतो व्यापारित इत्यर्थः पूर्वकस्य नियुक्तमित्यस्य क्रियाविशेषणरूपस्याव्यभिचारो नित्यमिति चार्थः । प्रत्ययार्थश्चायम्, स तु प्रकृत्यर्थोपाधिः । शुल्कशालायां नियुक्तः शौल्कशालिकः, आपणिकः, आतरिकः, दौवारिकः, आक्षपटलिकः ॥७४ | अगारान्तादिकः ॥ ६. ४. ७५ ।। अगारान्तात्तत्र नियुक्तेऽर्थे इकः प्रत्ययो भवति । देवागारिकः, देवागारिका, भाण्डागारिकः, भाण्डागारिका, आयुधागारिकः, आयुधागारिका, कोष्ठागारिकः, कोष्ठागारिका ॥७५॥ अदेशकालादध्यायिनि । ६. ४. ७६ ।। तत्रेति वर्तते । अध्ययनस्य यो प्रतिषिद्धौ देशकालौ तावदेशकालौ । तद्वाचिनः सप्तम्यन्तादध्यायिन्यर्थे इकण् प्रत्ययो भवति, अदेश, अशुचावध्यायी आशुचिकः । श्मशानेऽध्यायी श्माशानिकः, श्माशानाभ्यासिकः, अकालः, सान्ध्यिकः, औत्पातिकः, आनध्यायिकः । अदेशकालादिति किम् ? स्वाध्यायभूमावध्यायी, पूर्वाध्यायी ॥ ७६ ॥ न्या० स० अदेश॰—अध्ययनस्येति अध्यायिनश्च देशकालावेवाधारौ भवतः ताभ्यामन्यत्रा - ध्येतुमशक्यत्वात्, तत्र देशकालयोराधाराभावेन प्रतिषिद्धयोः क्वान्यत्राध्यायी अधीयीतेति विरोधमाशङ्कयाह-अध्ययनस्येति एतेन प्रतिषिद्धदेशवाचकात् प्रतिषिद्धकालवाचकाच्च सप्तम्यन्ध्येतर प्रत्ययः । निकटादिषु वसति ॥ ६. ४. ७७ ॥ निकटादिभ्यः सप्तम्यन्तेभ्यो वसत्यर्थे इकण् प्रत्ययो भवति । निकटे वसति नैकटिकः, आरण्यकेन भिक्षुणा ग्रामात्क्रोशे वस्तव्यमिति यस्य शास्त्रितो वासः स एवोच्यते । एतदर्थं एव च तत्रेत्यधिकारे सप्तमीनिर्देशः । वृक्षमूले वसति वार्क्षमूलिकः, श्माशानिकः, आभ्यवकाशिकः, आवसथिकः, निकटादयः प्रयोगगम्याः ॥७७॥
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy