SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ १६२ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ४ सू० २२-२६ ] ___याचितापमित्यात्कण ॥ ६. ४. २२ ॥ याचित अपमित्य इत्येताभ्यां तेन निवृत्ते कण् प्रत्ययो भवति । याचितेन याच्या निवृत्तं याचितकम्, अपमित्येति यबन्तम् । अपमित्य प्रतिदानेन निर्वृत्तमापमित्यकम् ।२२। न्या० स० याचि-अपमित्येति अपमानं 'निमील्यादिमेङः । ५-४-४६ क्त्वा 'मेङो वा मित् ' ४-३-८८। हरत्युत्सङ्गादेः ॥ ६. ४. २३ ॥ उत्सङ्गादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकण् प्रत्ययो भवति । उत्सङ्गेन हरत्यौत्सङ्गिकः, उत्रुपेन औत्रुपिकः, उडुपेन औडुपिकः । उत्सङ्ग, उत्रुप, उडुप, उत्पुन, उत्पुट, पिटक, पिटाक इत्युत्सङ्गादिः ।२३। भस्त्रादेरिकद ।। ६. ४. २४ ॥ __ भत्रादिभ्यस्तृतीयान्तेभ्यो हरत्यर्थे इकट् प्रत्ययो भवति । भस्नया हरति भस्त्रिकः, भस्त्रिकी, भरटिकः, भरटिकी। भस्त्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अङ्गभार, अङ्गेभार, अंसभार, अंसेभार इति भस्त्रादिः ।२४। विवधवीवधादा ॥ ६. ४. २५॥ विवधवीवध इत्येताभ्यां तेन हरत्यर्थे इकट् प्रत्ययो वा भवति । विवधेन हरति विवधिकः, विवधिकी, वीवधिकः, वीवधिकी, पक्षे इकण वैवधिकः वैवधिकी, विवधवीवधशब्दौ समानार्थी पथि पर्याहारे च वर्तेते ॥२५॥ ___ न्या० स० विविध०-पक्षे इकणिति अत्र वाग्रहणसामर्थ्यात् अन्येनाप्राप्तोऽपि पक्षे इकण् अन्यथा वाग्रहणमनर्थकं स्यात् । कुटिलिकाया अण् ॥ ६. ४. २६ ॥ कुटिलिकाशब्दात्तृतीयान्ताद्धरत्यर्थेऽण् प्रत्ययो भवति । कुटिलिकाशब्देनाग्रेवका लोहादिमयी अङ्गाराकर्षणी यष्टिर्वा कुटिला गतिर्वा पलालोत्क्षे. पणोऽग्रेवको दण्डो वा परिव्राजकोपकरणविशेषो वा चौराणां नौगृहाधारोहणार्थ दामाग्रप्रतिबद्ध आयसोऽर्द्धकुशो वोच्यते । कुटिलिकया हरत्यङ्गारान् कौटिलिकः कारः, कुटिलिकया हरति व्याधं कौटिलिको मगः, कुटिलिकया हरति पलालं कोटिलिकः कर्षकः, कुटिलिकया हरति पुष्पाणि कौटिलिकः परिव्राजकः, कुटिलिकया हरति नावं कौटिलिकश्चौरः ।२६।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy