SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १६० ] बृहद्वृत्ति - लघुन्यास संवलिते पा० ३. सू० ९-१५ ] न्या० स० व्यञ्ज॰—उपसिक्त एवेति सूपेन संसृष्टा स्थालीत्यनुपसिक्के संसृष्टे प्रत्ययो न भवतीति प्रत्ययार्थव्यवस्था । व्यजनैरेवेति उदकेनोपसिक्त ओदन इत्युदकादव्यञ्जनान्न भवतीति प्रकृतिव्यवस्था । तरति ॥ ६. ४. ९॥ तेनेति तृतीयान्तात्तरत्यर्थे इकण् प्रत्ययो भवति । उडुवेन तरति औडुविकः काण्डप्लविकः, शारप्लविकः, गौपुच्छिकः १९ । नौस्वरादिकः ॥ ६. ४. १० ॥ नौशब्दाद्विस्वराच्च नाम्नस्तृतीयान्तात्तरत्यर्थे इकः नावा तरति नाविकः, नाविका, द्विस्वर, घटिकः, प्लविकः बाहुका ।१०। प्रत्ययो भवति । दृतिकः, बाहुकः, चरति ॥ ६. ४. ११ ॥ तेनेति तृतीयान्ताच्चरत्यर्थे इकण् प्रत्ययो भवति । चरतिरिह गत्यर्थो भक्ष्यार्थश्वगृह्यते । गत्यर्थ, हस्तिना चरति हास्तिकः, शाकटिकः, घाण्टिकः, आकषिकः । आकषः सुवर्णनिकषोपलः औषधपेषणपाषाणश्च । भक्ष्यर्थ, - दध्ना चरति दाधिकः, शाङ्ग वेरिकः ।११। पर्पादेरिकद् ।। ६. ४. १२ ॥ पर्प इत्येवमादिभ्यस्तृतीयान्तेभ्यश्चरत्यर्थे इकट् प्रत्ययो भवति । पर्पेण अर्ध्य चरति पर्पिकः, पपिकी, अश्विकः, अश्वि की । पर्प, अश्व, अश्वत्थ, रथ, व्याल, व्यास इति पर्पादिः | १२ | पदिकः । ६. ४. १३ ॥ पादशब्दात्तेन चरत्यर्थे इकट् प्रत्ययो भवति अस्य पद्भावश्च निपात्यते । पादाभ्यां चरति पदिकः | १३| श्वगणाद्वा ॥। ६. ४. १४ ॥ श्वगणशब्दात्तेन चरत्यर्थे इकट् प्रत्ययो वा भवति । श्वगणेन चरति श्वगणिकः, श्वगणिकी, पक्षे इकण् श्वागणिकः, श्वागणिकी 'श्वादेरिति ' ( ७ - ४ - १० ) इति वात्प्रागौर्न भवति |१४| वेतन देर्जीवति ॥ ६. ४. १५ ॥ तेनेति वर्तते, वेतन इत्येवमादिभ्यस्तृतीयान्तेभ्यो जीवत्यर्थे इकण् प्रत्ययो
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy