________________
१५४ ] बृहवृत्ति-लघुन्याससंवलिते [ पाद. ३ सू० २०८-२०९] स्यादिति केनैव सिद्धेऽकविधानं वासुदेवी भजति वासुदेवकःअर्जुनीमर्जुनक इति एवमर्थम् ।२०७। __न्या० स० वासु०-एवमर्थमिति कप्रत्यये 'ड्यादीदूतःके' २-४-१०४ इति ह्रस्वत्वं स्यात् , अकप्रत्यये तु 'जानिश्च ' ३-२-५१ इति पुंवद् भवति । ।
गोत्रक्षत्रियेभ्योऽकञ् प्रायः ॥ ६. ३. २०८॥
__ गोत्रवाचिभ्यः क्षत्रियवाचिभ्यश्च द्वितीयान्तेभ्यो भजत्यर्थेऽकञ् प्रत्ययो भवति प्रायः, अणाद्यपवादः । ग्लुचुकाय नि भजति ग्लौचुकायनकः, औपगवकः, दाक्षकः, गार्गकः, गाायणकः। क्षत्रिय, नाकुलकः, साहदेवकः, दौर्योधनकः, दौःशासनकः। बहुवचनं क्षत्रिय विशेषपरिग्रहार्थम् । प्राय इति किम् ? पणिनोऽपत्यं पाणिनः तं भजति पाणिनीयः, पौरवीयः ।२०८। सरूपाद् द्रेः सर्व राष्ट्रवत् ॥ ६. ३. २०९ ॥
' राष्ट्रक्षत्रियात्सरूपाद्राजापत्ये दिरञ्' (६-१-११४) इति प्रस्तुत्य सरूपाद्यो द्रिः प्रत्यय उक्तस्त दन्तस्य द्वितीयान्तस्य भजतीत्यर्थे सर्वं प्रत्ययः प्रकृतिश्च राष्ट्रवद्भवति । राष्ट्रवाचिनी या प्रकृतिबजि इत्यादिस्ततश्च यः प्रत्ययो ‘वृजिम द्रा द्देशात्कः' (६-३-३७) इत्यादिना विहितस्तदुभयं वार्य इत्येवमादेः सरूपस्य द्रिप्रत्ययान्तस्य भजतीत्य स्मिन् विषये भवतीत्यर्थः । वाज्यं वाज्यौं वृजीन् वा भजति वृजिकः, माद्रं माद्रौ मद्रान्वा भजति मद्रकः, अत्र कप्रत्ययः। पाण्ड्यं पाण्डयौ पाण्डूवा भजति पाण्डवकः, आङ्गकः, वाङ्गकः, पाञ्चालकः, वैदेहकः, औदुम्बरकः, तैलखलकः । अत्र 'बहुविषयेभ्यः' (६-३-४४) इत्यकञ् । कौरवकः । कौरवः । यौगन्धरकः । यौगन्धरः । अत्र 'कुरुयुगंधराद्वा' (६-३-५२) इति वाकञ् । ऐक्ष्वाकः । अत्र 'कोपान्त्याच्चाण्' (६-३-५५) इत्यण् । सरूपादिति किम् ? पौरवीयम् । अत्र पुरू राजा अनुखण्डो जनपद इति सारूप्यं नास्ति । अत एव 'पुरुमगध'-इत्यादौ द्विस्वरत्वेनैव सिद्धे पुरुग्रहणमसरूपार्थ कृतम् । द्रेरिति किम् । पञ्चालान् ब्राह्मणान् भजति पाञ्चालः, अत्र 'बहुविषयेभ्यः' इत्य कञ् न भवति । सर्वग्रहणं प्रकृत्य तिदेशार्थम् । तच्च वाय॑माद्रपाण्डयकौरव्याः प्रयोजयन्ति । अन्यत्र हि नास्ति विशेषः ।२०९।
न्या० स० सरूपाद्रः-सरूपादिति सूत्रांशेन राष्ट्रक्षत्रियादित्युपलक्ष्यते ।
बहुविषयेभ्य इति-पाण्ड्यं पाण्ड्याविति एकत्वद्वित्वयोरपि राष्ट्रवदित्यतिदेशादबहुवत्ता तथैव इति बहुविषयेभ्य इति अकञ् भवत्येव ।