SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १२० ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद. ३. सू. ६८-७४ ] युष्मदीयः, अस्मदीयः, एकत्वे तु तवकममकम् । तवायं तावकः, ममायं, मामकः, ताकीनः, मामकीनः, पक्षे त्वदीयः, मदीयः ।६७। द्वीपादनुसमुद्रं ण्यः ॥ ६. ३. ६८ ॥ ___ समुद्रसमीपे यो द्वीपस्तद्वाचिनः शेषेऽर्थे ण्यः प्रत्ययो भवति । कच्छाद्यकअणोरपवादः, द्वैप्यो मनुष्यः, द्वैप्यमस्व हसितम्, द्वैप्यम् । अनुसमुद्रमिति किम् ? अनुनदि यो द्वीपस्तस्मात् द्वैपको व्यासः, द्वेषकमस्य हसितम्, द्वैपम् ।६८। अर्धाद्यः ॥ ६. ३. ६९ ॥ ___ अर्धशब्दाच्छेषेऽर्थे य: प्रत्ययो भवति । अय॑म् ।६९। सपूर्वादिकण ॥ ६. ३. ७० ॥ सपूर्वपदादर्धशब्दात् शेषेऽर्थे इकण् प्रत्ययो भवति । पौष्कराधिकः, बैजयाधिकः, बालेयाधिकः, गौतमाधिकः, क्षेत्राधिकः यौवनाधिकः ।७०। दिकपूर्वपदात्तौ ॥ ६. ३.७१॥ दिकपूर्वपदादर्धशब्दाच्छेषेऽर्थे तौ य इकण् इत्येतो प्रत्ययो भवतः । पूर्वायम्, पौर्वाधिकम् दक्षिणाय॑म्, दाक्षिणाधिकम्, पश्चाय॑म्, पाश्चाधिकम् ।७१। ग्रामराष्ट्रांशादणिकणौ ॥ ६. ३. ७२ ॥ ग्रामराष्ट्रकदेशवाचिनोऽर्धशब्दादिक्पूर्वात् शेषेऽर्थेऽण् इकण इत्येतो प्रत्ययौ भवतः, यापवादौ । ग्रामस्य राष्ट्रस्य वा पूर्वार्धे भवः पौर्धिः, पौर्वाधिक :, दाक्षिणार्धः, दाक्षिणाधिकः ।७२। परावराधमोत्तमादेयः ॥ ६. ३.७३ ।। ___ पर अवर अधम उत्तम इत्येतत्पूर्वादर्धशब्दाच्छेषेऽर्थे यः प्रत्ययो भवति, इकणोऽपवादः । परार्ध्यम्, अवरायम्, अधमार्यम्, उत्तमार्यम्, परावर योः दिक्शब्दत्वेऽपि परत्वादयमेव यः ।७३। न्या० स० परावरा०–दिक्शब्दत्वेऽपीति न केवलं परावरयोर्यथाक्रमं शत्रवधर्मार्थयोरनेन प्रत्यय इत्यपेरर्थः। अमोऽन्तावोधसः ॥ ६. ३. ७४ ॥ अन्त, अवस्, अधस् इत्येतेभ्यः शेषेऽर्थेऽमः प्रत्ययो भवति । अन्तमः, अवमः, अधमः, अकारादित्वमवोऽधसोऽन्त्यस्वरादिलोपार्थम् ।७४।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy