SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ ११४ ] बृहद्वृत्ति-लघुन्याससंलिते [पाद. ३ सू० ५१-५४ ] भवति, ईयाणोरपवादः । भारुकच्छे भवो भारुकच्छकः, पिष्पलीयकच्छे. पैष्पलीयकच्छकः, अग्नि, काण्डाग्नौ काण्डाग्नकः, विभुजाग्नौ वैभुजाग्नकः, वक्त्र, ऐन्दुवक्त्रे भवः ऐन्दुवक्त्रकः, तिन्दुवक्त्रे तैन्दुवक्त्रकः, वर्त, बाहुवर्ते बाहुवर्तकः, चक्रवर्ते चाक्रवर्तकः । उत्तरपदग्रहणमबहुप्रत्ययपूर्वार्थम्, ईषदसमाप्तः कच्छो बहुकच्छो देशः ततोऽकञ् न भवति ।५०। ___न्या० स० कच्छा०-ईयाणोरपवाद इति यत्र पूर्वपदस्य दुसंज्ञा तत्रेयस्यान्यत्र त्वणः, अत्र प्रथमप्रयोगे ईयस्य द्वितीये त्वणः प्राप्तिः । अरण्यात्पथिन्यायाध्यायेभनरविहारे ॥ ६. ३. ५१ ॥ अरण्यशब्दाद्देशवाचिनः पथ्यादिषु वाच्येषु शेषेऽर्थेऽकञ् प्रत्ययो भवति । आरण्यकः पन्थाः न्यायोऽध्यायः इभो नरो विहारो वा। पथ्यादाविति किम् ? आरण्याः सुमनसः, आरण्याः पशवः ॥५१॥ गोमये वा ॥ ६. ३. ५२ ॥ अरण्यशब्दाद्देशवाचिन: शेषेऽर्थे गोमये वाच्येऽकञ् प्रत्ययो भवति । आरण्यका गोमयाः, आरण्यानि गोमयानि । केचित्तु हस्तिन्यामपि विकल्पमिच्छन्ति, आरण्या आरण्यका हस्तिनी। एके तु नरवज पूर्वसूत्रेऽपि विकल्पमाहुः, आरण्यः आरण्यकः पन्था इत्यादि ।५२। कुरुयुगन्धरादा ॥ ६. ३. ५३ ॥ कुरुयुगन्धरशब्दाभ्यां देशवाचिभ्यां शेषेऽर्थेऽकञ् प्रत्ययो वा भवति । कुरुषु भवः कौरवकः कौरवः, युगन्धरेषु भवः यौगन्धरकः, यौगन्धरः, राष्ट्रशब्दावेतौ बहुविषयो च तत्र युगन्धरात् 'बहुविषयेभ्यः (६-३-४४) इति नित्यमकजि प्राप्ते विकल्पः । कुरोस्त्वकञः कच्छाद्यणा बाधितस्य प्रतिप्रसवार्थं वचनम् । तथा च विकल्पः सिद्ध एव । युगन्धरार्थात्तु विभाषा । ननस्थयोस्तु करोः परत्वादकत्रेव । कौरवको मनुष्यः कौरवकमस्य हसितम्।५३। साल्वादोयवाग्वपत्तौ ॥ ६. ३. ५४ ॥ साल्वशब्दाद्देशवाचिनो गवि यवाग्वां पत्तिजिते च मनुष्ये शेषेऽर्थेऽकञ् प्रत्ययो भवति । साल्वको गौः, साल्विका यवागूः, साल्वको मनुष्यः । गोयवाग्वपत्ताविति किम् ? साल्वा व्रीहयः, साल्वः पत्तिः। राष्ट्रेभ्योऽकत्रि कच्छाद्यणा बाधिते गोयवागूग्रहणं प्रतिप्रसवार्थम् अपत्तीति पत्तिप्रतिषेधात तत्सदशे मनुष्ये विधिः, तत्र चोत्तरेण सिद्ध एवाकनि नरि नियमार्थमपत्ति
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy