SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ [ पाद २. सू. १२१-१२४] श्रीसिद्धहेमचन्द्रशब्दानुशासने षष्ठाध्यायः [ ९३ भवति । वार्तिसूत्रिकः, सांग्रहसूत्रिकः । अकल्पादिति किम् ? सौत्रः, काल्पसौत्रः ।। १२७ । न्या० स० अकल्पात् सूत्रात् — सौत्र इति अकल्पादिति पर्युदासेन पूर्वपदाभावे न भवति । अधर्मक्षत्रत्रिसंसर्गाङ्गाद्विद्यायाः ॥ ६. २. १२१ ॥ धर्म क्षत्रत्रि संसर्ग अङ्ग इत्येतच्छब्दवजितात्परो यो विद्याशब्दस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकण् प्रत्ययो भवति । वायसविधिकः सार्पविधिकः । अधर्मादेरिति किम् । वैद्यः, धार्मविद्यः, क्षात्रविद्यः, त्र्यवयवा विद्या त्रिविधा तां वैत्त्यधीते वा त्रैविद्यः, अत्र त्रिविद्याशब्दस्य कर्मधारयस्यैव ग्रहणम् न द्विगोः । तत्र लुपि सत्यामणिकणोर्विशेषाभावात् । त्रिविद्यः, सांसर्गविद्यः, आङ्गविद्यः ।। १२१ ॥ याज्ञिकौक्थिकलोकायितिकम् ।। ६. २. १२२ ।। याज्ञिकादयः शब्दा वेत्त्यधीते वेत्यर्थे इकण्प्रत्ययान्ता निपात्यन्ते, याज्ञिकेति यज्ञशब्दाद्याज्ञिक्यशब्दाच्चेकण् इक्यलोपश्व निपात्यते । यज्ञं याज्ञिक्यं वा वेत्त्यधीते वा याज्ञिकः । औक्थिकेति उक्थशब्दः केषुचिदेव सामसु रूढः । यज्ञायज्ञीयात् परेण यानि गीयन्ते न च तेषु वर्तमानात्प्रत्यय इष्यते किं तहि तद्व्याख्याने औक्थिक्ये उपचारेण वर्तमानात् । उक्थमधीते औक्थिकः, औक्थिक्यमधीते इत्यर्थः । औक्थिक्यशब्दात्तु प्रत्ययो न भवत्यनभिधानात् तस्मादपीच्छन्त्येके । औक्थिक्यमधीते औक्थिकः, लौकायितिकेति लोकायतशब्दादिकण् यकाराकारस्य चेकारो निपात्यते, लोकायतं वेत्त्यधीते वा लोकायितिकः । लोकायतिका इति तु न्यायादिपाठात्सिद्धम् ।। १२२ ।। न्या० स० याज्ञिकौक्थिक ० परेणेति अव्ययः पराणीत्यर्थः । अनुब्राह्मणादिन् ॥ ६. २. १२३ ॥ अनुब्राह्मणशब्दाद्वेत्त्यधीते वेत्यर्थे इन् प्रत्ययो भवति । ब्रह्मणा प्रोक्तो ग्रन्थो ब्राह्मणम् । ब्राह्मणसदृशो ग्रन्थोऽनुब्राह्मणम् । सदृशार्थेऽव्ययीभावः, तद्वेत्त्यधीते वानुब्राह्मणी । अनुब्राह्मणिनौ, अनुब्राह्मणिनः, मत्वर्थीयेनैवेना सिद्धे अनभिधानाच्च इकस्याप्रवृत्तावण्बाधनार्थमिनो विधानम् ॥ १२३॥ शतषष्टेः पथ इकट् ॥ ६. २. १२४ ॥ शतषष्टि इत्येताभ्यां परो यः पथिन् शब्दस्तदन्ताद्वेत्त्यधीते वेत्यर्थे इकट् प्रत्ययो भवति । शतपथिकः, रातपथिकी, षष्टिपथिकः, षष्टिपथिकी । १२४ ।
SR No.032130
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 03
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages560
LanguageSanskrit
ClassificationBook_Devnagari
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy