SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ ८४ ] बृहद्वृत्ति-लघुन्याससंवलिते [पाद-१, सूत्र-३०-३४ न शस-दद-वादि-गुणिनः॥ ४. १. ३०॥ शसिदद्योर्वकारादीनां गुणिनां च धातूनां स्वरस्यत्वं न भवति । विशशसतुः, विशशसिथ, दददे, दददाते, दददिरे, ववले, ववलाते, बलिरे, ववणतुः, ववणिथ, विशशरतुः, विशशरिथ, बिभयिथ, लुलविथ ॥३०॥ हो दः॥ ४. १. ३१ ॥ दासंज्ञकस्य धातोही परेऽन्तस्यैकारादेशो भवति, न चायं द्विः । देहि, धेहि । न च द्विरिति वचनात्कृतमपि द्वित्वं निवर्तते, तेन यङ्लुप्यपि देहीति भवति । हाविति व्यक्तिनिर्देशादिह न भवति,-दत्तात् , धत्तात् ॥३१॥ न्या० स०-हौदः-यङ्लुप्यपीति-प्रत्यासत्तेायात् यस्मिन्नेव प्रत्यये द्वित्वमेत्वं च प्राप्तं तस्मिन्नेव प्रत्यये, न च द्विरिति प्रवर्तते, अत्र च यङ निमित्तकं द्वित्वं कथं निवय॑ते ? उच्यते व्यक्त्या प्रवृत्तेः । देर्दिगिः परोक्षायाम् ॥ ४. १. ३२ ॥ . देङः परोक्षायां दिगिरित्ययमावेशो भवति, न चायं द्विः । दिग्ये, दिग्याते, दिग्यिरे, अवदिग्ये, अवदिग्याते, अवदिग्यिरे ।। ३२ ॥ ढे पिब पीप्य ॥ ४. १. ३३ ॥ ण्यन्तस्य पिबतेर्डे परे पीप्य इत्ययमादेशो भवति न चायं द्विः। अपीप्यत , अपीप्यताम् , अपोप्यन् । पिबतिनिर्देशात्पातेन भवति,-अपीपलत् । लुप्ततिवनिर्देशाद्यङ्लुप्यपि न भवति, अपापयत् । ङ इति किम् ? पाययति ॥ ३३ ॥ न्या० स०-डे पिवः-लुप्ततिनिर्देशादिति-यतः सूत्रे पिबत्येकदेशः पिबऽनुचक्रे । श्रङे हिहनो हो घः पूर्वात् ।। ४. १. ३४ ॥ हिहन इत्येतयोर्धात्वोर्डवजिते प्रत्यये परे द्वित्वे सति पूर्वस्मात परस्य हस्य घो भवति । प्रजिघाय, प्रजिघीपति, प्रजेघीयते । प्रजेघेति । हन् ,-जिघांसति, जंघन्यते, जङ्गनीति । अङ इति किम् ? प्राजीयत् । अङे द्विर्वचननिमित्तप्रत्ययेऽनन्तरस्य विज्ञानादिह न भवति, हननीयितुमिच्छति-जिहननीयिषति । ङपर्यदासात्त रिणव्यवधाने भवति.प्रजिघायियिषति । पूर्वादिति वचनान्न च द्विरिति निवृत्तम् ॥३४॥ न्या० स०- अड़े हिहनो-जंघन्यते इति-कुटिलं हन्ति 'गत्यर्थात्' ३-४-११ इति यङ, यदि हिंसार्थस्तदा 'हनो नोवंधे' ४-३-९९ इति स्यात् । प्रजिघाययिषतीति-प्रहिण्वन्तं प्रयुक्त णिग् वृद्धिः, प्रहाययितुमिच्छति सन् ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy