SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-५८-६० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [६३ णि-श्रिन्द्र-स्त्र -कमः कर्तरि ङः ॥ ३. ४.५८॥ ण्यन्तात् झ्यादिभ्यश्च कर्तरि अद्यतन्यां ङः प्रत्ययो भवति । णि-प्रचीकरत , अचूचुरत् , औजढत् , अचीकमत । कर्मकर्तापि कतैव । अचीकरत कटः स्वयमेव, घि-अशिश्रियत् , द्रु-अदुद्रुवत् , स्त्र गतौ-प्रसुत्र वत् , कम्-अचकमत। ____ कर्तरीति किम् ? अकारयिषातां कटौ देवदत्तेन । कमिग्रहणम् 'प्रशवि ते वा' (३-४-४) इति यदा णिङ् नास्ति तदार्थवत् । ङकारो ङित्कार्यार्थः ॥ ५८॥ न्या० स०-णिश्रि०-अचीकरदिति-ननु 'स्वरस्य परे' ७-४-११० इति ह्रस्वत्वस्य स्थानित्वे लघोऽभावात् सन्वद्भावो न प्राप्नोति ? न, एतत्सूत्रसामर्थ्याद् भवति, यत ओणे ऋदनुबन्धकरणव्याख्यानात् पूर्वं ह्रस्वत्वे कृते स्थानिवद्भावो न, प्राविधावित्यस्य प्राचि पूर्वस्मिन् काले विधिः प्राविधिरिति व्याख्यानात् वा। औजढदिति-अत्र परे द्वित्वे 'हो धुट्पदान्ते' २-१-८२ इत्यस्याऽसत्त्वे तदाश्रितत्वात् 'अधश्चतुर्थात्तथो०' २-१-७९ इत्यस्याप्यऽसत्त्वे * णौ यत् कृतम् * इति न्यायादऽकारस्य स्थानित्वे 'नाम्नो द्वितीयात्' ४-१-७ इत्यनेन ह तेति द्विर्वचनं तत्र यदा परे द्वित्वे 'हो धुट्पदान्ते' २-१-८२ इत्यस्य शास्त्रस्यासिद्धिराश्रीयते तदा पुनरपि 'हो धुट पदान्ते' २-१-८२ इत्यादि प्रक्रिया क्रियते ततो 'ढस्तड्ढे' १-३-४३ इति ढलोपे पूर्वजकाराऽकारस्य दीर्घत्वे 'ह्रस्वः' ४-१-३९ इत्यनेन ह्रस्वः। ___अकारयिषातामिति-क्रियेते कटौ देवदत्तेन, तो देवदत्तेन क्रियमाणौ यज्ञदत्तेन प्रयुज्येते स्म, यद्वा करोति कटौ देवदत्तः, स एवं विवक्षते नाहं करोमि, अपि तु क्रियेते कटौ स्वयमेव, तौ क्रियमाणो कटौ यज्ञदत्तेन प्रायुक्षाताम् ।। टधेश्वेर्वा ॥ ३. ४.५१ ॥ टधेश्विभ्यां कर्तर्यद्यतन्यां ङः प्रत्ययो वा भवति । अदधत् , अधात् , अधासीत , अशिश्वियत् , अश्वयीत् , अश्वत् । कर्तरीत्येव ? अधिषाताम् गावौ वत्सेन ॥ ५९॥ शास्त्यसू-वक्ति-ख्यातेरङ्॥ ३. ४. ६०॥ एभ्यो धातुभ्यः कर्तयद्यतन्यामङ् प्रत्ययो भवति । शासूक्-अशिषत् , व्यत्यशिषत, अन्वशिषत स्वयमेव । असूच्-आस्थत, अपास्थत्, वचंक ब्रूगक वा,-अवोचत् , अवोचत, ख्यांक चक्षिक वा-आख्यत् , प्राख्यत । कर्तरीत्येव ? प्रशासिषाताम् शिष्यौ गुरुणा। तिवनिर्देशो यङ्लुबन्तनिवृत्त्यर्थः । प्रशाशासोत् , अवावाचीत् , अचाख्यासीत् । असू इत्यूकारः किम् ? असक् भुवि, असी गत्यादौ-आभ्यां माभूत-अभूत् , प्रासीत् । अस्यते: पुष्यादित्वादङि सिद्धे वचनम् प्रात्मने, पदार्थम् , शास्तेरात्मनेपदे नेच्छन्त्येके, तन्मते व्यत्यशासिष्ट ॥६०॥ ___ न्या० स०-शास्त्य०-वक्तिख्यातीत्युक्ते चक्षिकब्र गोरपि ग्रहणं, यत: 'इकिस्तिव्' ५-३-१३८ इति इकि विषये वच: ख्यादेशे पश्चात्तिव् उत्पन्नः । प्रात्मनेपदार्थमितितहि आत्मनेपदपरस्मैपदयोरनेनैव सिध्यति किं पुष्यादिपाठेन ? सत्यं, अस्य पुष्यादिपाठो
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy