SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र १०३-१०७ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [३९ वाच्यमस्यापि नियमार्थं कस्मान्न भवति, विधिनियमसंभवे विधेरेव ज्यायस्त्वम् । प्रादहः॥ ३.३.१०३॥ प्रपूर्वाद्वहतेः कर्तरि परस्मैपदं भवति । प्रवहति ॥ १०३ ॥ परेषश्च ॥ ३. ३. १०४॥ परिपूर्वान्मषेर्वहेश्च कर्तरि परस्मैपदं भवति । परिमष्यति, परिवहति । मैत्रं परिमृष्यते धनं परिवहरी इत्यत्र न परिम॒षिवहिभ्यां संबध्यते । वहेर्नेच्छन्त्यन्ये ॥ १०४ ॥ व्यापरे रमः॥ ३. ३. १०५ ।। व्यापरिभ्य: पराद्रमेः कर्तरि परस्मैपदं भवति । विरमति, आरमति, परिरमति । इदित्त्वादात्मनेपदस्यापवादः॥ १०५ ॥ वोपात् ।। ३.३.१०६ ॥ उपपूर्वाद्रमेः कर्तरि परस्मैपदं भवति वा । भार्यामुपरमति उपरमते वा । उपसंप्राप्तिपूविकायां रतौ वर्तमानोऽन्तर्भूतणिगर्थो वा रमिः सकर्मकः । उपरमति उपरमते वा संताप । उपरमति उपरमते वावद्यात् । उपाद्रमेः सकर्मकात्परस्मैपदमेवेत्येके । आत्मनेपदमेवेत्यन्ये ।।१०६॥ न्या० स०-वोपातः-उपरमरो वा संताप इति-निवृत्त्यर्थः पुररुपपूर्वोऽप्यकर्मक इति दर्शयति। अणिगि प्राणिकर्तृ कानाप्याण्णिगः ॥ ३. ३. १०७॥ अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तस्माण्णिगन्तात्कर्तरि परस्मैपदं भवति । आस्ते चैत्र आसयति चैत्रम् , शेते मैत्रः शाययति मैत्रम् । अणिगीति किम् । स्वयमेवारोहयमाणं हस्तिनं प्रयुङ्क्ते आरोहयते । अरिणगिति गकारः किम् ? णिजवस्थायां प्राणिकर्तृकानाप्यात णिगन्ताद्यथा स्यात् । चेतयमानं प्रयुक्त चेतयतीति । प्राणिकर्तृ केति किम् ? शुष्यन्ति व्रीहयः, शोषयते व्रोहीनातपः। 'प्राण्यौषषिवृक्षेभ्यः' (६-२-३१) इति पृथग्निर्देशादिहलोके प्रतीता एव प्राणिनो गद्यन्ते । अनाप्यादिति किम् ? कटं कुर्वाणं प्रयुङक्ते कटं कारयते । णिग इति किम् ? प्रास्ते, शेते । गकारः किम् ? अणिगवस्थायां प्राणिकर्तृकानाप्याप्णिजन्तान्माभूत् । चेतयते, 'ईगितः' ( ३-३-६५) इत्यात्मनेपदस्यापवादोऽयम् ॥ १०७॥ न्या० स० अणिगि०:-आरोहयत इति-आरोहयते हस्तिना हस्तिपक इति सकलप्रयोगः । अत्र चावस्थापञ्चकं पूर्ववत् विधाय षष्ठ्यामवस्थायां स्वयमेवारोहयमाणं हस्तिनं प्रयुङ क्ते, इत्यस्यां परस्मैपदं प्राप्तं तदणिगीति व्यावृत्त्या निषिध्यते । ननु द्वितीयस्यामवस्थायामारुह्यते हम्ती स्वयमेवेत्यस्यामणिगन्तायं धातुः प्राणिकर्तृकोऽनाप्यश्चास्ति तत्कथं न भवति परस्मैपदम् ? सत्यं, तदपेक्षया चतुर्थ्यामुत्पन्नमेवारोहयन्ति हस्तिनं हस्तिपका इति, प्रस्तुते त्वारोहते हस्ती स्वयमेवेत्यस्याः पञ्चम्या अवस्थाया अनन्तरं स्वयमेवारोहयमाणं हस्तिनं प्रयुङ क्ते इत्यस्यां षठ्यामवस्थायां णिगि
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy