SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ सूत्र-८९५-६०२ ] स्वोपशोणादिगणसूत्रविवरणम् [ ४६५ समानशब्दः क्षत्रियः। दरदः-जनपदः । भस भर्त्सन-दीप्त्योः सौत्रः, भसत्-जघनम् , आस्यम् , आमाशयस्थानं च । भषेरपीच्छन्त्येके भषत् ।। ८९४ ।। तनि-त्यजि-यजिभ्यो डद् ॥ ८६५॥ एभ्यो डिद् अद्प्रत्ययो भवति । तनूयी विस्तारे, तत् , सः। त्यजं हानौ, त्यद्, स्यः। एतौ निर्देशवाचिनौ । यजी देवपूजादौ, यद्, यः । अयमुद्देशवाची ।। ८९५॥ इणस्तद् ॥८६६॥ इणंक गतौ, इत्यस्मात् तद् प्रत्ययो भवति । एतद्-एषः, समीपवाची शब्दः ।८९६। प्रः सद् ॥ ८१७॥ पृश् पालनपूरणयोः, इत्यस्मात् सद् इत्येवं प्रत्ययो भवति । पर्षत् सभा ।। ८९७।। द्रो हस्वश्च ॥ ८६८॥ दृश् विदारणे, इत्यस्मात् सद् प्रत्ययो भवति । ह्रस्वश्चास्य भवति, दृषत्-पाषाणः ।। ८९०॥ युष्यसिम्यां क्मद् ॥ ८६६ ॥ आभ्यां किद् मद् इत्ययं प्रत्ययो भवति । युषः सौत्रः सेवायाम् , युष्मद् , यूयम् । असूच क्षेपणे, अस्मद्-वयम् ॥ ८९९ ॥ उचि-तक्ष्यक्षीशि-राजि-धन्वि-पश्चि-पूषि-क्लिदि-स्निहि-नु-मस्जेरन् ॥१०॥ एभ्यः अन् प्रत्ययो भवति । उक्ष सेचने उक्षा-वृषः । तक्षी तनूकरणे, तक्षावर्धकिः । अक्षो व्याप्तौ च, अक्षा-दृष्टिनिपातः । ईशिक् ऐश्वर्ये, ईशा-परमात्मा। राजग दीप्ती. राजा-ईश्वरः। धन्विः सौत्रो गती. धव गतौ वा. धन्वा-मरुः, धनश्च । पच व्यक्तीकरणे, पञ्च संख्या। पूष वृद्धी, पूषा-आदित्यः। क्लिदोच आर्द्रभावे. क्लेदा-मुखप्रसेकः, चन्द्रः, इन्द्रश्च । ष्णिहौच प्रीती। स्नेहा-स्वाङ्गम् , सृहत् , वशा च गौः । णुक स्तुतौ नव-संख्या । टुमस्जोंद शुद्धौ, मज्जा-षष्ठो धातुः ।। ६००॥ लू-पू-यु-वृषि-दंशि-धु-दिवि-प्रतिदिविभ्यः कित् ॥ ६०१ ॥ एभ्यः किद् अन् प्रत्ययो भवति । लुग्श् छेदने, लुवा-दात्रं, स्थावरश्च । पूग्श् पवने, पुवा-वायुः । युक् मिश्रणे, युवा-तरुणः । वृष सेचने, वृषा-इन्द्रः, वृषभश्च । दंशं दशने, दश-संख्या । छुक् अभिगमे, धुवा-अभिगमनीयः, राजा सूर्यश्च । दिवूच् क्रीडादौ, दिवा. दिनम् । प्रतिपूर्वात् प्रतिदिवा-अहः अपराह्णश्च ।। ६०१॥ श्वन्-मातरिश्वन-मूर्धन्-प्लीहन्नयमन--विश्वप्सन् परिज्वन्-महनहन्-मघवन्नर्थवमिति ॥ ६०२ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy