SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ सूत्र - ७५५-७६४ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ४४९ शलेरङ्कुः ।। ७५५ ॥ शल गतौ, इत्यस्मात् अङकुः प्रत्ययो भवति । शलङ कु:- -ऋषिः ।। ७५५ ।। सृ-पृभ्यां-दाकुक् ।। ७५६ ॥ आभ्यां किद्दाकुः प्रत्ययो भवति । सृ गतौ, सदाकु:- दावाग्निः, वायुः, आदित्यः, व्याघ्रः, शकुनिः, अस्तः, भर्ता, गोत्रकृच्च । पृक् पालनपूरणयो:, पृदाकुः - सर्पः, गोत्रकृच्च ।। ७५६ ।। इषेः स्वाकुकू च ।। ७५७ ॥ इषत् इच्छायाम्, इत्यस्मात् कित् स्वाकुः प्रत्ययो भवति । इक्ष्वाकु :- आदिक्षत्रियः ।। ७५७ ॥ फलि-वल्यमेर्गुः ।। ७५८ ॥ एभ्यो गुः प्रत्ययो भवति । फल निष्पत्तौ फल्गु - असारम् । वलि संवरणे, वल्गुमधुरम्, शोभनं च, वल्गुः - पक्षी । अम गतौ, अङगुः - शरीरावयवः ।। ७५८ ।। दमेलु' क् च ।। ७५६ ॥ दमूच् उपशमे, इत्यस्माद् गुः प्रत्ययो भवत्यन्त्यस्य च लुग् भवति । दगु :ऋषिः ।। ७५६ । होर्हिन् च ॥ ७६० ॥ हिंदू गतिवृद्ध्योः इत्यस्माद् गुः प्रत्ययो भवत्यस्य च हिन् इत्यादेशो भवति । हिङ्गुः - रामठः । । ७६० ।। प्री-कै-पै-नीलेङ्गुक् ॥ ७६१ ॥ एभ्य किद् अङ्गुः प्रत्ययो भवति । प्रींग्श् तृप्तिकान्त्योः प्रियङ्गुः - फलिनी, रालकश्च । कैं शब्दे, कङगुः - अणुः । पैं शोषणे, पङ्गुः - खञ्जः । णील वर्णे, नीलङगुःकृमिजातिः, शृगालश्च ।। ७६१ ।। अव्यतिं-गृभ्योऽदुः ।। ७६२ ।। एभ्योऽटुः प्रत्ययो भवति । अव रक्षणादो, अवटुः - कृकाटिका । ऋक् गतौ, अरटु:वृक्षः । गृत् निगरणे, गरटुः- देशविशेषः, पक्षी, अजगरश्च ।। ७६२ ।। शलेराटुः || ७६३ ॥ शल गतौ, इत्यस्माद् आटुः प्रत्ययो भवति । शलाटु: - कोमलं फलम् ॥ ७६३ ।। अज्ञ्ज्यवेरिष्टुः ॥ ७६४ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy