SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४४४ ] स्वोपज्ञोणादिगण सूत्रविवरणम् [ सूत्र- ७१७ ७२५ बन्धुः- स्वजन, बन्धु-द्रव्यम् । अण शब्दे, अणुः - पुद्गलः, सूक्ष्मः, रालकादिश्च धान्यविशेषः । लोष्टि संघाते, लोष्टुः - मृत्पिण्डः । कुन्यश् संक्लेशे । कुन्थुः - सूक्ष्मजन्तुः ।।७१६ ।। स्यन्दि-सृजिभ्यां सिन्धू-रज्जौ च ॥ ७१७ ॥ आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्यं सिन्धू रज्ज इत्यादेशौ भवतः । स्पन्दौ स्रवणे सिन्धुः - नदः, नदी, समुद्रश्च । सृजत् विसर्गे सृजिच् विसर्गे वा रज्जुः - देवरक: ।। ७१७ ॥ पंसेर्दीर्घश्च ॥ ७१८ ॥ पसुण् नाशने, इत्यस्माद् उः प्रत्ययो भवति, दीर्घश्चास्य भवति । पांशुः - पार्थिवं रजः ।। ७१८ ।। अशेरान्नोऽन्तश्च ।। ७१६ ॥ अशौटि व्याप्ती, इत्यस्माद् उः प्रत्ययो भवत्यकाराच्च परो नोऽन्तो भवति । अंशु:रश्मिः, सूर्यश्च । प्रांशुः - दीर्घः ।। ७१९ ।। नमेर्नाक् च ।। ७२० ॥ णमं प्रह्वत्वे, इत्यस्माद् उः प्रत्ययो भवत्यस्य च नाक् इत्यादेशो भवति । नाकु:व्यलीकम्, वनस्पतिः, ऋषिः, वल्मीकश्च ।। ७२० ।। मनि-निभ्यां धतौ च ॥ ७२१ ॥ आभ्याम् उः प्रत्ययो भवत्यनयोश्च यथासंख्यं धकार-तकारौ भवतः । मनिच् ज्ञाने, मधु क्षौद्रम्, शीधु च मधुः - असुरः, मासश्च चैत्रः । जनैचि प्रादुर्भावे, जतु - लाक्षा ।। ७२१ ।। अजेॠ जू च ।। ७२२ । अर्ज अर्जने, इत्यस्माद् उः प्रत्ययो भवत्यस्य च ऋज् इत्यादेशो भवति । ऋजुअकुटिलम् ।। ७२२ ।। कृतैस्तर्क च ।। ७२३ ।। कृतैत् छेदने, कृतै वेष्टने, इत्यस्माद्वा उः प्रत्ययो भवति, अस्य च तर्क इत्यादेशो भवति । तकुं :- चुन्दः सूत्रवेष्टनशलाका च ।। ७२३ ।। नेरञ्चैः ॥ ७२४ ।। निपूर्वादञ्चते: उ: प्रत्ययो भवति । न्यङ, कुः - मृगः, ऋषिश्च ।। ७२४ ।। किमः श्रोणित् ।। ७२५ ।। किम् पूर्वात् शृश् हिंसायाम्, इत्यस्माद् जिद् उः प्रत्ययो भवति । किशारु :- शुकः धान्यशिखा, उष्ट्र: हिंस्रः इषुश्च ।। ७२५ ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy