SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ सूत्र--६६६-७०५ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४४१ वल्लरिः-लता, वीणा, सस्यमञ्जरी च । ऋक् गतौ, अररि:-कपाटम् । कृतैत् छेदने, कर्तरि:-केशादिकर्तनयन्त्रम् ॥ ६९८ ॥ मस्यसि-घसि-जस्यङ्गि-सहिभ्य-उरिः ॥ ६६६ ॥ .. एभ्य उरिः प्रत्ययो भवति । मसैच परिणामे, मसुरिः-मरीचिः। असूच क्षेपणे, अरिः-संग्रामः । घस्ल अदने, घसूरि:-अग्निः । जसूच मोक्षणे, जसुरिः-समाप्तिः, अशनिः, अरणिः, क्रोधश्च । अगु गतौ, अङ गुरिः-करशाखा, लत्वे अङ गुलिः । षहि मर्षणे, सहुरिः-पृथ्वी, अक्रोधनः, अनड्वान् , संग्रामः, अन्धकारः, सूर्यश्च ।। ६९९ ।।। मुहेः कित् ॥ ७००॥ मुहीच वैचित्ये, इत्यस्मात् किद् उरिः प्रत्ययो भवति । मुहुरिः-सूर्यः, अनड्वांश्च ॥ ७००॥ धू-मूभ्यां लिक्-लिणौ ॥ ७०१ ॥ आभ्यां यथासंख्यं लिक् लिण् एतौ प्रत्ययौ भवतः । धूग्श् कम्पने, धूलिः-पांसुः । मूङ बन्धने, मौलिः-मुकुटः ।। ७०१॥ पाट्यञ्जिभ्यामलिः ।। ७०२ ॥ आभ्याम् अलिः प्रत्ययो भवति । पट गतौ ण्यन्तः, पाटलि:-वृक्षविशेषः । अञ्जोप व्यक्त्यादौ, अञ्जलि:-पाणिपुट:, प्रणामहस्तयुग्मं च ।। ७०२ ।। मा-शालिभ्यामोकुलि-मली ॥ ७०३ ॥ आभ्यां यथासंख्यम् ओकुलि-मलि इत्येतौ प्रत्ययो भवतः। मांक माने, मोकुलिःकाकः । शल गतो ण्यन्तः, शाल्मलि:-वृक्षविशेषः ।। ७०३ ॥ द-प-व-भ्यो विः ॥ ७०४॥ एभ्यो विःप्रत्ययो भवति । दृश् विदारणे, दविः-तः । पृश् पालनपूरणयोः, पवि:कङ्कः, हिंस्रश्च । वृग्श् वरणे, वविः-शकटं, धात्री, काकः, श्येनश्च ।। ७०४ ॥ ज-श-स्त-जागृ-कृ-नी-घृषिभ्यो ङित् ॥ ७०५ ॥ एभ्यो ङिद् विः प्रत्ययो भवति । जृष्च् जरसि, जीविः-वायुः, पशुः, कण्टकः, शकटः, मद्गुः, कायम् , गुल्म, शङ्का, वृद्धः, वृद्धभावश्च । शृश् हिंसायाम् , शीविः-हिंस्रः, कृमिः, न्यङकुश्च । स्तम्श आच्छादने, स्तीवि:-गर्विष्ठः, अध्वर्युः, भगः, तनुः, रुधिरं, भयम् , तृणजातिः, नभः, अजश्च । जागृक् निद्राक्षये, जागृविः-राजा, अग्निः, प्रबुद्धश्च । ङित्वान्न गुणः । डुकृग् करणे, कृविः-रुद्रः, तन्तुवायः, तन्तुवायद्रव्यम् , राजा च । यदुपज्ञं कृवय इति पूरा पञ्चालानाचक्षते । णींग प्रापणे, नीवि:-परिधान ग्रन्थिः, मूलधनं च । घृष् संघर्षे, घृष्विः-वराहः, वायुः, अग्निश्च ।। ७०५ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy