SearchBrowseAboutContactDonate
Page Preview
Page 442
Loading...
Download File
Download File
Page Text
________________ सूत्र - ६२८-६३५ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४३३ शकटं, शङ्खश्च । अणीचिः- वेणुः, शाकटिकश्च । दधि धारणे, दधीचिः - राजर्षिः । अव रक्षणादी, अवीचिः -नरक विशेषः ।। ६२७ ।। वेगो डित् || ६२८ ॥ वेंग् तन्तुसंताने, इत्यस्माद् डि ईचिः प्रत्ययो भवति । वीचिः - ऊमिः ।। ६२८ ।। वति ॥ ६२६ ॥ शब्दे इत्यस्माद् द् िईचि: प्रत्ययो भवति । वाणीचिः - छाया, व्याधिश्व । ६२९ । कृषि - शकिभ्यामटिः ॥ ६३०॥ आभ्याम् अटिः प्रत्ययो भ॑वति । कृपीङ सामर्थ्ये, कर्पटि :- नि. स्वः । शक्लृट् शक्तौ शकटि:- शकटः ।। ६३० ।। श्रेर्दिः ॥ ६३१ ॥ श्रिग् सेवायाम्, इत्यस्माद् ढिः प्रत्ययो भवति । श्रेढि :- गणितव्यवहारः ।। ६३१ ।। चमेरुच्चातः || ६३२ ॥ चमू' अदने इत्यस्माद् ढिः प्रत्ययो भवत्यस्योकारश्च । चुण्ढिः क्षुद्रवापी ||६३२ ।। मुषेरुण चान्तः ॥ ६३३ ॥ मुषश् स्तेये, इत्यस्माद् ढिः प्रत्यय उण् चान्तो भवति । मुषुण्ढिः प्रहरणम् । उणो न गुणो विधानसामर्थ्यात् ।। ६३३ ।। का-वा- वी-क्री-श्रि-श्रु-क्षु-ज्वरि - तूरि-चूरि-पूरिभ्यो णिः || ६३४ ॥ एभ्यो णिः प्रत्ययो भवति । के शब्दे, काणि: - वैलक्ष्याननुसर्पणम् । वेंग तन्तुसन्ताने, वाणि: - व्यूतिः । वीं प्रजनादौ, वेणिः - कबरी । डुकींग्श् द्रव्यविनिमये, क्रेणिः - क्रयविशेषः । श्रिगु सेवायाम्, श्रेणि:- पङक्तिः, बलविशेषश्च श्रेणयः - अष्टादश गणविशेषाः । निपूर्वात् निश्रेणिः- संक्रमः । श्रुंट् श्रवणे, श्रोणिः - जघनम् । टुक्षुक् शब्दे, क्षोणिः पृथ्वी । ज्वर रोगे, जूणिः- ज्वरः, वायुः, आदित्यः, अग्निः शरीरं ब्रह्मा, पुराणश्च । तूरैचि त्वरायाम्, तूणिः -त्वरा, मनः, शीघ्रश्च । चूरैचि दाहे, चूर्णि :- वृत्तिः । पूरैचि आप्यायने, पूर्णि:पूरः ।। ६३४ ।। ऋत् घृ-सृ-कृ-वृषिभ्यः कित् ॥ ६३५ ॥ ऋकारान्तेभ्यो घृ इत्यादिभ्यश्च कि णिः प्रत्ययो भवति । शृश हिंसायाम् शीणिः- रोगः, अवयवश्च । स्तृग्श् आच्छादने, स्तीणिः - संस्तरः । वृ सेचने, घृणि: - रश्मिः, ज्वाला, निदाघश्च । सृ गतौ सृणि:- आदित्यः, वज्रम्, अनिल:, अङकुशः, अग्निश्च । कुंक् शब्दे, कुणिः - विकलो हस्तः, हस्तविकलश्च । वृषू सेचने, वृष्णिः - वस्तः, मेष:, यदुविशेषश्च । पर्षंतेरपीच्छन्त्येके । पृष्णिः - रश्मिः ।। ६३५ ।। I
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy