SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ सूत्र--६०८-६०६ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [४२९ गोमायुः, अग्निः, शब्दः, प्रजनप्राप्ता, चतुष्पात् , जलदश्च । काशृङ दीप्तौ, काशयःजनपदः । छर्दण् वमने, छदि:-वमनम् । तन्त्रिण कुटुम्बधारणे, तन्त्रिः -वीणासूत्रम् । मन्त्रिण गुप्तभाषणे, मन्त्रिः-सचिवः । खडुण् भेदे, खण्डिः-प्रद्वारम् । मडु भूषायाम् , मण्डि:मृदुभाजनपिधानम् । चडुङ कोपे, चण्डि:-भामिनी । यतैङ प्रयत्ने, यति:-भिक्षुः। अजौप् व्यक्तिम्रक्षणगतिषु, अजिः-सज्जः, पेषणी, पेजः, गतिश्च । समञ्जिः-शिश्नः । मसैच परिणामे, मसिः-शस्त्री । असूच क्षेपणे. असिः-खड्गः । वनूयी याचने, वनिः-साधुः, यात्रा, शकुनिः, अग्निश्च । ध्वन शब्दे, ध्वनिः-नादः । षण भक्ती, सनि:-संभक्ता, पन्थाः, दानं, म्लेच्छः, नदीतटं च । गम्लु गतौ, गमिः-आचार्यः । तमूच् काङक्षायाम् , तमि:अलसः । ग्रन्थश् संदर्भे, श्रन्थश् मोचन-प्रतिहर्षयोः, ग्रन्थिः, श्रन्थिश्च पर्व संध्यादि । जनैचि प्रादुर्भावे, जनिः- वधूः, कुलाङ्गना, भगिनी, प्रादुर्भावश्च । मण शब्दे, मणिः-रत्नम् । आदिग्रहणात् वहीं प्रापणे, वहिः-अश्वः । खादृ भक्षणे, खादि:-श्वा । दधि धारणे, दधिक्षीरविकारः। खल संचये च, खलि:-पिण्याकः । शचि व्यक्तायां वाचि, शची-इन्द्राणी, 'इतोऽक्तयर्थात' इति गौरादित्वाद् वा डीः इत्यादयोऽपि भवन्ति ।। ६०७ ।। किलि-पिलि-पिशि-चिटि-त्रुटि-शुण्ठि-तुण्डि-कुण्डि-भण्डि-हुण्डि-हिण्डि-पिण्डिचुल्लि-बुधि-मिथि-रुहि-दिवि-कीर्त्यादिभ्यः ॥ ६०८॥ एभ्यः इ: प्रत्ययो भवति । किलत् श्वैत्य-क्रीडनयोः, केलिः-क्रीडा । पिलण क्षेपे, पेलि:-क्षुद्रपेला । पिशत् अवयवे, पेशि:-मांसखण्डम् । चिट प्रेष्ये, चेटि:-दारिका, प्रेष्या च । त्रुटत् छेदने, ण्यन्तः, त्रोटिः चञ्चुः। शुठु शोषणे, शुण्ठिः-विश्वभेषजम् । तुडुङ तोडने, तुण्डि:-आस्यम् , प्रवृद्धा च नाभिः । कुडुङ दाहे. कुण्डि:-जलभाजनम् । भडुङ परिभाषणे, भण्डिः-शकटम् । हुडुङ संघाते, हुण्डि:-पिण्डितः ओदनः । हिडुङ गतौ च, हिण्डि:-रात्रौ रक्षाचारः । पिडुङ संघाते, पिण्डिः-निष्पीडितस्नेहः पिण्डः । चुल्ल हावकरणे, चुल्लि:-रन्धनस्थानम् । बुधिंच ज्ञाने, बोधिः-सम्यग्ज्ञानम् । मिथङ-मेधाहिंसयोः, मेथि:-खलमध्यस्थूणा । रुहं बीजजन्मनि, रोहिः-सस्य, जन्म च । दिवूच् क्रीडादौ, देविःभूमिः । कृतण संशब्दने, णिजन्तः, कीर्तिः-यशः । आदिग्रहणादन्येऽपि ।। ६०८ ॥ नाम्युपान्त्यक-गृ-श-पृ-पूभ्यः कित् ॥ ६०६ ॥ नाम्युपान्त्येभ्यः क्रादिभ्यश्च किदिः प्रत्ययो भवति । लिखत् अक्षरविन्यासे, लिखि:शिल्पम् । शूच् शोके, शुचिः-पूतः, विद्वान् , धर्मः, आषाढश्च । रुचि अभिप्रोत्यां च, रुचि:दीप्तिः, अभिलाषश्च । भुजंप् पालनाभ्यवहारयोः, भुजिः-अग्निः, राजा, कुटिलं च । कुणत् शब्दोपकरणयोः, कुणिः-विकलो हस्तः, हस्तविकलश्च । सृजत् विसर्गे, सृजिः पन्थाः । द्युति दोप्तो, द्युतिः-दोप्तिः । ऋत् घृणागतिस्पर्धेषु, ऋति:-यतिः । छदृपी द्वैधीकरणे, छिदि:छेत्ता, पशुश्च । मुदि हर्षे, मुदि:-बालः । भिदृपी विदारणे, भिदिः-वज्र, सूचकः भत्ता च । ऊदपी दीप्तिदेवनयोः, छुदिः-रथकारः । लिपीत् उपदेहे लिपिः-अक्षरजातिः । तुर त्वरणे, सौत्रः, तुरिः-तन्तुवायोपकरणम् । डुलण् उत्क्षेपे, डुलि:-कच्छपः । त्विषीं दीप्तौ,
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy