SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ सूत्र-५४४-५५३ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ ४२१ कोरफः ॥ ५४४ ॥ कुङ शब्दे, इत्यस्माद् अषः प्रत्ययो भवति । कवष:-क्रोधी, शब्दकारश्च ।।५४४।। युजलेरापः॥ ५४५॥ आभ्याम् आषः प्रत्ययो भवति । युक् मिश्रणे, यवाषः-दुरालभा । जल घात्ये, जलाषं-जलम् ॥ ५४५ ।। अपरिषः ॥ ५४६॥ ऋक् गतौ, इत्यस्माण्ण्यन्ताद् इषः प्रत्ययो भवति । अर्पिषम्-आर्द्रमांसम् ॥५४६॥ मह्यविभ्यां टित् ॥ ५४७॥ आभ्यां टिद् इष: प्रत्ययो भवति । मह पूजायाम् , महिषः-सैरिभः, राजा च, महिषी-राजपत्नी, सैरिभी च । अव रक्षणादौ, अविष:-समुद्रः, राजा, पर्वतश्च । अविषीद्यौः, भूमिः, गङ्गा च ।। ५४७ ।। रुहेवृद्धिश्च ॥ ५४८॥ रुहं जन्मनि, इत्यस्मात् टिद् इषः प्रत्ययो भवति, वृद्धिश्चास्य भवति । रौहिषंतृणविशेषः, अन्तरिक्षं च, रौहिषः-मृगः । रौहिषी-वात्या, मृगी, दूर्वा च ।। ५४८ ।। अमिमृभ्यां णित् ।। ५४६ ॥ आभ्याम् इषः प्रत्ययो भवति, स च णिद् भवति । अम गतौ, आभिषं-भक्ष्यम् । मृश् हिंसायाम् , मारिषः-हिंस्रः ।। ५४९ ।। तवेर्वा ॥ ५५० ॥ तव गती, इत्यस्मात् सौत्रात् टिद् इषः प्रत्ययो भवति, स च णिद्वा भवति । ताविषः, तविषश्च-स्वर्गः । ताविषं, तविषं च बलं तेजश्च । ताविषी, तविषी च वात्या, देवकन्या च ॥ ५५०॥ कलेः किल्ब च ।। ५५१ ।। कलि शब्द-संख्यानयोः, इत्यस्मात् टिद् इषः प्रत्ययो भवत्यस्य च किल्ब इत्यादेशो भवति । किल्बिषं-पापम् , किल्बिषी-वेश्या, रात्रिः, पिशाची च ।।५५१।। नजो व्यथेः ।। ५५२ ॥ नपूर्वात् व्यस्थिष् भय-चलनयोः, इत्यस्मात् टिद् इषः प्रत्ययो भवति । अव्यथिष:-क्षेत्रज्ञः, सूर्यः, अग्निश्च । अव्यथिषी-पृथिवी ।। ५५२।। कृ तृभ्यामीपः ।। ५५३ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy