SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ ४१० ] स्वोपज्ञोणादिगणसूत्रविकरणम् [ सूत्र-४६६-४७३ मनोज्ञः । तुस शब्दे, तोसलाः जनपदः । कुसच् श्लेषे, कोशला-जनपदः । अनक प्राणने, अनलः अग्निः । द्रम गतौ, द्रमलं-जलम् ॥ ४६५ ।। नहि-लङ्गेदीषश्च ॥ ४६६ ॥ आभ्याम् अलः प्रत्ययो भवत्यनयोश्च दी| भवति । णहीच बन्धने, नाहलः म्लेच्छ: । लगु गतौ लाङ्गलं-हलम् ।। ४६६ ।। ऋ-जनेोऽन्तश्च ।। ४६७ ॥ आभ्याम् अलः प्रत्ययो गकारश्चान्तो भवति । ऋक् गतो, अर्गला-परिघः । जनैचि प्रादुर्भावे, जङ्गलं निर्जलो देशः ॥ ४६७ ।। तृपि-वपि-कुपि-कुशि-कुटि-वृषि-मुसिभ्यः कित् ।। ४६८ ॥ एभ्यः किद् अलः प्रत्ययो भवति । तृपोचप्रीती, तृपला-लता, तृपलं-शुष्कपर्ण, शुष्कतृणं च । डुवपी बीजसंताने, उपल:-पाषाणः। कुपच् कोपे, कुपलःप्रवाल: । कुशच श्लेषणे, कुशल:-मेधावी । कुशलम् आरोग्यम् । कुटत् कौटिल्ये-कुटल.-ऋषिः । वृषू सेचने, वृषलः-दासजातिः । मुसच् खण्डने, मुसलम् अवहननम् ।। ४६८ ।। कोर्वा ॥ ४६६ ॥ कुंङ शब्दे इत्यस्माद् अलः, स च प्रत्ययो किद्वा भवति । कुवलं-बदरम् , कुवलीक्षुद्रबदरी, कवलः ग्रासः ॥ ४६९ ॥ शमेव च वा ॥ ४७० ॥ शमूच उपशमे, इत्यस्माद् अलः प्रत्ययो भवति मकारस्य बकारो वा भवति । शबल:-कल्माषः, शमल-पुरीषम् , दुरितं च ॥ ४०॥ .. छोर्डग्गादि ॥ ४७१॥ छोच छेदने, इत्यस्मात् किद् अल: प्रत्ययो भवति । स च डगांदिर्गादिर्वा भवति । छगल:-छागः, छागल:-ऋषिः । छलं-वचनविधातोऽर्थविकल्पोपपत्त्या ।। ४७१ ॥ मृजि-खन्याहनिभ्यो डित् ॥ ४७२ ॥ एभ्यः डिद् अलः प्रत्ययो भवति । मृजौक शुद्धौ मलं बाह्य रजः-अन्तर्दोषश्च । खनग अवदारणे, खलः दुर्जनः, निष्पीडितरसं पिण्याकादि, खलं-सस्यफलग्रहणभूमिः। हनंक हिंसागत्योः, आङपूर्वः, आहल:-विषाणं, नखरश्च ।। ४७२ ।। स्थो वा ॥ ४७३ ॥ तिष्ठतेः अलः प्रत्ययो भवति, स च डिद्वा भवति । स्थलं प्रदेशविशेषः । स्थालंभाजनम् ॥ ४७३ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy