SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ४०६ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [सूत्र-४४२-४४७ अश्नोतेरीचादेः॥ ४४२॥ अशोटि व्याप्ती, इत्यस्माद्वरट् प्रत्ययो भवति, ईकारश्चादेर्भवति । ईश्वरः-विभुः, ईश्वरी-स्त्री ॥ ४४२ ॥ नी-मी-कु-तु-चेर्दीर्घश्च ॥ ४४३ ॥ एभ्यो वरट् प्रत्ययो दीर्घश्चैषां भवति । णींग प्रापणे; नीवर:-पुरुषकारः । मींग्श् हिंसायाम्, मीवरः-हिंस्रः, समुद्रश्च । कुंङ शब्दे, कूवर:-रथावयवः तुक वृत्त्यादिषु, तूवरः-मन्दश्मश्रुः, अजननीकश्च । चिंग्ट् चयने, चीवरं मुनिजनवासः, निःसारकन्था च॥ ४४३ ॥ तीवर-धीवर-पीवर-छित्वर-छत्वर-गह्वरोपहर-संयद्वरोदुम्बरादयः ॥ ४४४ ॥ एते वरट् प्रत्ययान्ता निपात्यन्ते । तिभ्यतेस्ती च तीक्तेर्वाऽरे तीवरं जलं, व्यञ्जनं च । ध्यायते च धीवर:. कैवर्तः. प्यायः प्यैडो वा पीच, पीवतेर्वा किदरः, पोवरःमांसलः । छिनत्तेस्तः-किच्च, छित्वरः-शठः, जर्जरः, पिटकश्च छादेणिलुकि ह्रस्वश्च, छत्वरः, निर्भर्त्सकः, निकुञ्जश्च । छत्वरं-कुड्यहीनं गृहम् , शयनप्रच्छदः, छदिश्च । गुहेरच्चोतः गह्वर-गहनं, महाबिलं, भयानकं, प्रत्यन्तदेशश्च । उपपूर्वात् ह्वो वालुक् च, उपह्वर-संधिः, समीपं, रहःस्थानं च । सम्पूर्वाद्यमेर्दश्च, संयद्वरः-रणः, संयमी, नृपश्च । उन्देः किदुम् चान्तः, उदुम्बरः-वृक्षविशेषः । आदिग्रहणाद् उम्बर-शम्बरादयो भवन्ति कडेरेवराङ्गरौ ॥ ४४५॥ कडत् मदे, इत्यस्माद् एवर अङ्गर इति प्रत्ययो भवतः । कडेवरं-मृतशरीरम् , लत्वे कलेवरम् । कडङ्गरः-वनस्पतिः ।। ४४५ ॥ ट् ॥ ४४६ ॥ सर्वधातुभ्यस्त्रट प्रत्ययो भवति । छादयतीति छत्रम् छत्री वा धर्मवारणम् । पातीति पात्रम् ऊर्जितगुणाधारः साध्वादिः। पात्री-भाजनम् । स्नायतेः-स्नात्रं स्नानम् । राजते इति-राष्ट्र-देशः । शिष्यतेऽनेन-शास्त्रं-ग्रन्थः । अस्च् क्षेपणे, अस्त्रं-धनुः ।।४४६।। जि-भृ-स-भ्रस्जि-गमि-नमि-नश्यशि-हनिविषेवृद्धिश्च ॥ ४४७॥ एभ्यस्त्रट प्रत्ययो भवति, वृद्धिश्चैषां भवति । जि अभिभवे, जैत्र:-जयनशीलः, जैत्र-द्यूतम् । टुडुभृग्क् पोषणे च, भात्र-पोषः, यश्च भृति गृहीत्वा वहति । सृगतो, सात्रःआलयः। भ्रास्जीत् पाके, भाष्ट्रम्-अम्बरीषम् । गम्लौंगतो, गान्त्र-मन:, शरीर, लोकश्च । णमं प्रह्वत्वे, नान्त्रं-शिरः, शाखा, वैचित्र्यं च । नशौच अदर्शने नशो धुटीति नोन्तः, नांष्ट्रायातुधानाः। अश्नोतेरश्नातेर्वा आष्ट्रम्-आकाशः, रश्मिश्च । हनक हिंसागत्योः, हान्त्रंरक्षः, युद्धं, वधश्च । विष्लुको व्याप्ती, वैष्ट्र:-विष्णु , वायुश्च: । वैष्टं-यकृत् , त्रिदिवं, वेश्म च ।। ४४७॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy