SearchBrowseAboutContactDonate
Page Preview
Page 402
Loading...
Download File
Download File
Page Text
________________ सूत्र-३६९-३७७ ] स्वपज्ञोणादिगणसूत्रविक्रणम् [ ३६३ वृः शषौ चान्तौ ॥ ३६६ । वृङश संभक्तौ इत्यस्मात् किद् अयः प्रत्ययो भवति, शकार षकारौ चान्ती भवतः । वृशयं-देशनाम, आकाशम् आसनं शयनं च । वृषयः-आशयः ।। ३६६ ।। गय-हृदयादयः ॥ ३७० ॥ गय-हृदयादयः शब्दाः किदयप्रत्ययान्ता निपात्यन्ते । गमेडिच्च, गयः-प्राणः, गया तीर्थम् । हरतेर्दोऽन्तश्च, हृदयं मनः, स्तनमध्यम् च, आदिशब्दात् गणेरेयः गणेयं गणनीय. मित्यादि ॥ ३७० ॥ मुचे-धय-घुयौ ॥ ३७१॥ मुच्लुती मोक्षणे, इत्यस्माद् धितो अय उय इति प्रत्ययो कितौ भवतः। मुकयःमुकुयश्च-अश्वतरादश्वायां जातः । घित्करणं कत्वाथम् ।। ३७१ ॥ कुलि लुलि-कलि-कषिभ्यः कायः ॥ ३७२ ॥ एभ्यः किद् आयः प्रत्ययो भवति । कुल बन्धुसंस्त्यानयो:-कुलाय:-नीडम् । लुलिः सौत्रं, लुलायः-महिषः । कलि शब्दसंख्यानयोः, कलायः-त्रिपुट: । कष हिंसायाम् , कषाय:-कल्कादिः ॥ ३७२ ॥ श्रु-दक्षि-गृहि-स्पृहि-महेराय्यः ॥ ३७३ ॥ एभ्यः आय्यः प्रत्ययो भवति । श्रृंट श्रवणे, श्रवाय्यः-यज्ञपशुः, ग्रहणसमर्थश्च श्रोता। दभि हिंसागत्योः, दक्षाय्यः-अग्नि, गृध्रः, वैनतेयः, दक्षतमश्च । गृहि ग्रहणे, गृहयाय्य:, वैनतेयः, गृहकर्मकुशलश्च । स्पृहण ईप्सायाम् , स्पृहयाय्यः-स्पृहयालुः, घृतं च । स्पृहयाय्याणि-तृणानि च, अहानि च । महण पूजायाम् । महयाय्यः-अश्वमेधः ।। ३७३॥.. दधिषाय्य-दीधीषाय्यौ ॥ ३७४ ॥ ... एतौ आय्यप्रत्ययान्तौ निपात्येते । दधिपूर्वात् स्यतेः षत्वं च । दधिषाय्यं-पृषदा. ज्यम् , मृषावादी च । दिव्यतेर्दीधीष् च दीधीषाय्यं तदेव ।। ३७४ ।। कौतेरियः ॥ ३७५ ॥ कुंक् शब्दे इत्यस्माद् इयः प्रत्ययो भवति । कवियं खलीनम् ।। ३७५ ।। कृगः कित् ॥ ३७६ ॥ डुकृग् करणे इत्यस्मात् किद् इयः प्रत्ययो भवति । क्रियः-मेषः ।। ३७६ ॥ मृजेर्णालीयः ॥ ३७७ ॥ मृजौक् शुद्धौ, इत्यस्माद् णिदालीयः प्रत्ययो भवति । मार्जालीयम्-पापशोधनम, मार्जालीयः-अग्निः, मृजोऽस्य वृद्धिरिति वृद्धिः, णकार उत्तरार्थः ।। ३७७ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy