SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ सूत्र-३२८-३३६] स्वोपज्ञोणादिगणसूत्रविवरणम् . [३८७ नुनादः । जनैचि प्रादुर्भावे, जम्भः-दानवः, दन्तश्च, जम्भा-मुखविदारणम् । ऋक् गतो, अर्भ:-शिशुः । दलण् विदारणे, दल्भः-ऋषिः, वल्कलं, विदारणं च ॥ ३२७ ॥ इणः कित् ॥ ३२८॥ इंणक् गती, इत्यस्मात् किद् भः प्रत्ययो भवति । इभः-हस्ती ॥ ३२८ ॥ कु-श-ग-शलि-कलि-कडि-गर्दि-रसि-रमि-वडि वल्लेरभः ॥ ३२६ ॥ एभ्यः अभः प्रत्ययो भवति । कृत् विक्षेपे, करभः-त्रिवर्ष उष्ट्रः । शृश् हिंसायाम् , शरभः-श्वापदविशेषः । गृत् निगरणे, गरभः-उदरस्थो जन्तुः । पल-फल-शल-गतो, शलभ:-पतङ्गः । कलि शब्दसंख्यानयोः, कलभः हस्ती यौवनाभिमुखः । कडत्-मदे, कडभः हस्तिपोतकः । गर्द शब्दे, गर्दभः-खरः। रासृङ शब्दे, रासभः स एव । रमि क्रीडायाम् , रमभः-प्रहर्षः। वड: सौत्रः, वडभीवेश्माग्रभूमिका । ऋफिडादित्वाल्लत्वे वलभी। वल्लि संवरणे, वल्लभः-स्वामी, दयितश्च ॥३२९ ।। सनेर्डित् ॥ ३३०॥ षण् भक्तौ इत्यस्मात् डिद् अभः प्रत्ययो भवति । सभा-परिषत् , शाला च ।३३०। ऋषि-वृषि-लुसिभ्यःकित् ॥ ३३१ ॥ एभ्यः किद् अभः प्रत्ययो भवति । ऋषत् गतो, वृषू सेचने, ऋषभः वृषभश्च पुङ्गवः, भगवांश्चादितीर्थकरः । ऋषभः-वायुः । लुसिः सौत्रः, लुसभ:-हिंस्रः, मत्तहस्ती, वनं च ॥ ३३१ ॥ सि-टिकिभ्यामिभः सैर-टिट्टौ च ॥ ३३२ ॥ आभ्याम् इभः प्रत्ययो भवति । दन्त्यादिः, सैरः टिट्टश्चादेशौ यथासंख्यं भवतः । पिंगट् बन्धने, सैरिभः-महिषः । टिकि गती, टिट्टिभः-पक्षी ।। ३३२ ।। ककेरुभः ॥ ३३३॥ ककि लौल्ये, इत्यस्माद् उभः प्रत्ययो भवति । ककुभः-अर्जुनः ।। ३३३ ।। कुकेः कोऽन्तश्च ।। ३३४॥ कुकि आदाने, इत्यस्माद् उभः प्रत्ययो भवति, ककारश्चान्तादेशो भवति । कुक्कुभः-पक्षिविशेषः ।। ३३४॥ दमो दुण्ड् च ॥ ३३५ ॥ दमूच उपशमे, इत्यस्माद् उभः प्रत्ययो भवत्यस्य च दन्त्यादिष्टवर्गतृतीयान्तो दुण्ड इत्यादेशो भवति । दुण्डुभ:-निविषाहिः ।। ३३५ ॥ . कृ-कलेरम्भः ।। ३३६ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy