SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ सूत्र-२०८-२१५ ] स्वोपज्ञोणादिगणसूत्र विवरणम् [ ३७१ पृषि रञ्जि- सिकि-का-ला- नृभ्यः कित् ॥ २०८ ॥ I एभ्यः किद् अतः प्रत्ययो भवति । पृषू सेचने, पृषतः - हरिणः । रञ्जीं रागे, रजतं - रूप्यम् । सिकिः सौत्रः, सिकता वालुका । कैं शब्दे, कतः - गोत्रकृत् । लांक् आदाने, लतावल्ली । वृग्ट् वरणे, व्रतं - शास्त्रविहितो नियमः ।। २०८ ।। कृ-नृ-कल्य लि- चिलि-विलीलि ला - नाथिभ्य आतंकू ॥ २०६ ॥ एम्य आतक् प्रत्ययो भवति । कृत् विक्षेपे, किरातः - शबरः । वृग्ट् वरणे, व्रात:समूहः, उत्सेधजीविसंघश्च । कलि शब्दसंख्यानयोः, कलातः- ब्रह्मा । अली भूषणादौ, अलातम् - उल्मुकम् । चिलत् वसने, चिलाता :- म्लेच्छाः । विलत् वरणे, विलातः-शवाच्छादनवस्त्रम् । इलत् गत्यादौ, इलातः - नगः । लांक् आदाने, लात : - मृत्तिकादानभाजनम् । नाशृङउपतापैश्वर्याशी षु च । नाथातः - आहारः, प्रजापतिश्च ।। २० ।। हृ-श्या - रुहि - शोणि-पलिभ्य इतः ॥ २१० ।। एभ्यः इतः प्रत्ययो भवति । हृग् हरणे, हरितः वर्णः । श्यैङ गतौ, श्येत:- वर्णः, मृग:, मत्स्यः श्येनश्च । रुहं जन्मनि, रोहितः वर्णः, मत्स्य:, मृगजातिश्च । लत्वे लोहितः वर्णः, लोहितम् असृक् । शोण वर्णगत्योः, शोणितं रुधिरम् । पल गतौ, पलितंश्वेतकेशः ।। २१० ।। नञ आपेः ।। २११ ॥ पूर्वाद् आलं व्याप्ती, इत्यस्माद् इतः प्रत्ययो भवति । नापितः कारुविशेषः ।। २११ ॥ क्रुशि-पिशि- पृषि - कृषि - कुस्युचिभ्यः कित् ॥ २१२ ॥ एभ्यः किद् इतः प्रत्ययो भवति । क्रुशं आह्वानरोदनयोः क्रुशितं पापम् । विशत् अवयवे, पिशितंमांसम् । पृषू सेचने, पृषितं वारिबिन्दुः । कुष्श् निष्कर्षे, कुषितं पापम् । कुशच् श्लेषे, कुशितः ऋषिः, कुशितम् - ऋणं, श्लिष्टं च । उचच् समवाये, उचितं-स्वभावः योग्यं चिरानुयातं श्रेष्ठं च ।। २१२ ।। हगई ॥ २१३ ॥ हृग् हरणे, इत्यस्माद् ईतण् प्रत्ययो भवति । हारीत: - पक्षी, ऋषिश्च ।। २१३॥ अदो भुवो डुतः ॥ २१४॥ अपूर्वात् भुवो डुतः प्रत्ययो भवति । अद् विस्मितं भवति तेन तस्मिन् वा मनः अद्भुतम् - आश्चर्यम् ।। २१४ ।। कुलि - मयिभ्यामूतक् ॥ २१५ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy