SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ ३६८ ] स्वोपज्ञोणादिगणसूत्रविवरणम् [ सूत्र-१९०-१९६ चिक्कण-दुक्कण-कृकण-कुङ्कण-त्रवणोल्वणोरणलवण-वङ्क्षणादयः॥ १० ॥ एते किद् अण्प्रत्ययान्ता निपात्यन्ते । चिनोतेश्चिक्क च, चिक्कणः-पिच्छिलः । कूकिकृगोः कोऽन्तश्च, कुक्कण:-शकूनिः । कृकण: ऋषिः । कूकेः स्वरान्नोऽन्तश्च, कूकणाःजनपदः । पेर्वश्च, त्रवणः-देशः । वलेवस्य उत् , वोऽन्तश्च, उल्वणः-स्फारः । अर्तेरुर् च, उरणः-मेषः । लीयतेः क्लिद्यते:-स्वद्यते-लवादेशश्च । लवणं, गुणः, द्रव्यं च । वञ्चे: सः परादिनलोपाभावश्च, वङक्षणः ऊरुमूलसंधिः । आदिशब्दात् ज्योतिरिङ्गणतुरणभुरणादयो भवन्ति ।। १६० ।। कृषि-विषि-वृषि-धृषि-मृषि-युषि-हि-ग्रहेराणक् ॥ १६१ ॥ एभ्य आणक् प्रत्ययो भवति । कृपौङ सामर्थ्य कृपाणः-खङ्गः। विषू सेचने, विषाणः-शृङ्गम् , करिदन्तश्च । वृषू सेचने, वृषाणः। त्रिभूषाट् प्रागल्भ्ये, घषाणः-देवः । मृषू सहने च, मृषाणः । युषि सेवने सौत्रः, युषाणः । द्रुहौच जिघांसायाम् , द्रुहाण:-मुखरः । ग्रहीश् उपादाने, गृहाणः । वृषाणादयः स्वप्रकृत्यर्थवाचिनः सर्वेऽपि कर्तरि कारके ज्ञेयाः ।। १९१ ॥ ...पषो णित् ॥ ११२॥ . . पषी बाधनस्पर्शनयोः इत्यस्माद् आणक् प्रत्ययो भवति, स च णिद् भवति । पाषाणः-प्रस्तरः ।। १६२॥ कल्याण-पर्याणादयः ॥ १६३॥ कल्याणादयः शब्दा आणक्प्रत्ययान्ता निपात्यन्ते। कलेोऽन्तश्च, कल्याण श्वोवसीयम् । परिपूर्वात् इणो लूक् च । पर्याणम् -अश्वादीनां पृष्ठच्छदः । आदिशब्दाद् द्रेक्काणबोक्काण-केक्काणादयोऽपि भवन्ति ॥ १९३ ।। द्रु-ह-वृहि-दक्षिभ्य इणः ॥ १६४ ॥ एम्यः इणः प्रत्ययो भवति । द्रु गतो, द्रविणं-द्रव्यम् । हृग् हरणे, हरिणः:-मृगः । बृह वृद्धौ, बहिण:-मयूरः । दक्षि शैये च दक्षिणः-कुशलः, अनुकूलश्च । दक्षिणा, दिग्, ब्रह्मदेयं च ॥ १९४ ॥ ऋ-द्रुहेः कित् ॥ १६५ ॥ आभ्यां किद् इणः प्रत्ययो भवति । ऋश् गती, इरिणम्-ऊषरम् , कुञ्जः, वनदुर्ग च । द्रुहौच जिघांसायाम् , द्रुहिणः-ब्रह्मा, क्षुद्रजन्तुश्च ।। १६५ ॥ ऋ-कृ-व-धृन्दारिभ्य उणः ॥ १६६ ।। एभ्य उणः प्रत्ययो भवति । ऋक् गतौ, अरुणः सूर्य ; सारथिः, उषा, वर्णश्च । कृत् विक्षेपे, करुणा-दया, करुणः-करुणाविषयः, करुणं-दैन्यम् । वृश् भरणे, वरुणः-प्रचेताः । धृग् धारणे, धरुणः-धर्ता, आयुक्तो, लोकश्च । दृश् विदारणे, णौ, दारुणः-उग्रः ।। १९६ ।।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy