________________
३६६ ]
स्वोपज्ञोणादिगणसूत्रविवरणम्
[सूत्र-१७७-१८४
लगेरुडः ॥ १७७॥
लगे सङगे इत्यस्मात् उडः प्रत्ययो भवति । लगुडः यष्टिः । गृ-ज-दृ-व-भूभ्यस्तु उडो विहित एव ।। १७७ ।।
कुशेरुण्डक् ॥ १७८ ॥ कुशच् श्लेषे, इत्यस्मात् उण्डक् प्रत्ययो भवति कुशुण्ड:-वपुष्मान् ।। १७८ ॥ शमि-पणिभ्यां ढः॥ १७६ ॥
आभ्यां ढः प्रत्ययो भवति । शमूच् उपशमे, शण्ढ:-नपुंसकम् । षन भक्तौ, षण्ड:स एव । बाहुलकात् सत्वाभावः ॥ १७६ ।।
कुणेः कित् ॥१८॥
कुणत् शब्दोपकरणयोः, इत्यस्मात् कित् ढः प्रत्ययो भवति । कुण्ड:-धूर्तः । बाहुलकान्न दीर्घः॥१८० ॥
नञः सहेः षा च ।। १८१॥
नत्रपूर्वात् षहि मर्षणे, इत्यस्मात् ढः प्रत्ययो षा चास्यादेशो भवति । अषाढा. नक्षत्रम् ।। १८१ ॥
इणुर्वि-शा-वेणि-प-कृच-त-ज-ह-सृपि-पणिभ्यो णः ॥ १८२ ॥
एभ्यो णः प्रत्ययो भवति । इंणक् गतौ, एण:-कुरङ्गः । उर्वं हिंसायाम् , उर्णामेषादिलोम, भ्रुवोरन्तरावर्तश्च । शोंच तक्षणे, शाण:-परिमाणम् , शस्त्रतेजनं च । वेणग गतिज्ञानचिन्तानिशामनवादित्रग्रहणेषु, वेण्णा कृष्णवेण्णा च नाम नदी । पृश पालनपूरणयोः, पर्ण-पत्त्रं, शिरश्च । कृत् विक्षेपे, कर्णः-श्रवणं. कौन्तेयश्च । वृग्श् वरणे, वर्ण:शुक्लादिः, ब्राह्मणादिः, अकारादिः, यशः, स्तुतिः, प्रकारश्च । तु प्लवनतरणयोः, तर्ण:वत्सः । जुष्च् जरसि, जर्णः-चन्द्रमाः, वृक्षः, कर्कः, क्षयधर्मा, शकुनिश्च । दृङतु आदरे, दर्णः-पर्णम् । सृप्लु गतौ, सर्ण:-सरीसृपजातिः। पणि व्यवहारस्तुत्योः, पण्णम्-व्यवहारः ॥ १८२॥
घृ-वी-हा-शुष्युषि-वृषि-कृष्यर्तिभ्यः कित् ॥ १८३॥
एभ्यः कित् णः प्रत्ययो भवति । घुसेचने, घृणाकृपा । वींक प्रजननादिषु, वोणावल्लकी । ह्वोंग स्पर्धाशब्दयोः, हूण:-म्लेच्छजातिः। शुषंच शोषणे, शुष्णः-निदाघः । उप दाहे, उष्णः-स्पर्शविशेषः । वितृषच् पिपासायाम् , तृष्णा-पिपासा। कृषीत् विलखने, कृष्णः-वर्णः, विष्णुः, मृगश्च । ऋक् गती, ऋणं-वृद्धिधनम् , जलं, दुर्गभूमिश्च ॥१८३॥
द्रोर्वा ॥ १८४॥