SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ ३२८ ] बृहद्वृत्ति - लघुन्यास संवलिते [ पाद- ४, सूत्र - ५८-६० गोष्पदत्रं वृष्टो मेघः, गोष्पदपूरं वृष्टो मेघः, सीताप्रं सीतापूरं वृष्टो मेघः, यावता गोष्पदादिपूरणा भवति तावद् वृष्ट इत्यर्थः । अस्येति ग्रहणादुपपदस्य न भवति- मूषकबिलपूरं वृष्टो मेघः । गोष्पदप्रमिति प्रातेर्धातोः "आतो डोऽह्वावाम: " ( ५-१-७६ ) इति डेन, गोष्पदपूरमित्यणा च क्रियाविशेषणत्वे सिध्यति, एवं सर्वे णमन्ताः प्रयोगाः ; तत्र विधानमव्ययत्वेन तरामाद्यर्थमनुस्वारश्रवणार्थं च तेन 'गोष्पदप्रतराम, गोष्पदप्रतमाम्, गोष्पदप्ररूपं गोष्पदप्रं- कल्पं देश्यं देशीयम्, गोष्पदपूर- तरां तमां रूपं कल्पं देश्यं देशीयम्' इत्यादि सिद्धं भवति, अन्यथा हि गोष्पदप्रतरं गोष्पदपूरतरमित्याद्येव स्यात् । 'गोष्पदप्रेण, गोष्पदप्रीभवति, गोष्पदपूरेण, गोष्पदपूरीभवति' इत्यादिप्रयोगास्तु ड घञादि प्रत्ययान्ता द्रष्टव्याः ||५७ ॥ न्या० स० - वृष्टिमाने-मानशब्दः करणसाधनो भावसाधनो वा ततः कर्म्मषष्ठी समासः । क्रियाविशेषणत्व इति स्थिते तु न क्रियाविशेषणत्वं भावसाधनत्वेन सामानाधिकरण्याभावात्, गोष्पदं प्रातीत्यादौ कर्तृ साधनत्वात् सामानाधिकरण्ये सति क्रियाविशेषणत्वमुपपद्यते । एवं सर्वे मन्ता इति एतत् सूत्रोपात्ताः सीताप्रमित्यादयः । चेलार्थात् क्नोपेः ॥ ५. ४. ४८ ॥ चेलार्थात् व्याप्यात् परात् क्नोपयतेस्तुल्यकर्तृ केऽर्थे वर्तमानात् वृष्टिमाने गम्यमाने धातोः संबन्धे णम् वा भवति । चेलक्नोपं वृष्टो मेघः, वस्त्रक्नोपम्, वसनक्नोपम्; यावता चेलं क्नूयते - आर्द्राभवति तावद् वृष्ट इत्यर्थः । अर्थग्रहणादत्र स्वरूप- पर्याय विशेषाणां त्रयाणामपि ग्रहणम्, तेन- 'पटिकावनोपम्, कम्बलक्नोपम्' इत्यादौ चेलविशेषादपि भवति । अयमप्यप्राक्काले विधिः ।। ५८ ।। गात्र- पुरुषात् स्नः ॥ ५. ४, ५१ ॥ गात्र- पुरुषाभ्यां व्याप्याभ्यां परादन्तर्भू तथ्यर्थात् स्नातेस्तुल्यकर्तृ केऽर्थे वर्तमानात् वृष्टिमाने गम्यमाने धातोः संबन्धे णम् वा भवति । गात्रस्नायं वृष्टो मेघः, पुरुषस्नायं वृष्टो मेघः; यावता गात्रं पुरुषश्च स्नाप्यते तावद् वृष्ट इत्यर्थः । इदं केचिदेवेच्छन्ति ॥ ५६ ॥ न्या० स०- गात्र पुरुष - अन्तर्भू तण्यर्थादिति - एतेन उपपदयोः कर्मत्वमानीतम् । सति । शुष्क - चूर्ण- रूक्षात् विषस्तस्यैव ॥ ५. ४. ६० ॥ शुष्क- चूर्ण-रुक्षेभ्यो व्याप्येभ्यः परात् पिषेर्णम् वा भवति, तस्यैव धातोः संबन्धे शुकपेषं पिनष्टि, शुष्कं पिनष्टीत्यर्थः एवं चूर्णपेषम् ; रूक्षपेषम् ; शुष्कपेषं पिष्टः,
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy