SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ पाद-४, सूत्र-१७-२० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [३१३ जातु-यद्-यदा-यदो सप्तमी ॥ ५. ४. १७॥ 'जातु यद् यदा यदि' इत्येतेषूपपदेषु अश्रद्धाऽमर्षयोर्गम्यमानयोर्धातोः सप्तमी भवति । भविष्यन्त्यपवादः । । . न श्रद्दधे न क्षमे-जातु तत्रभवान् सुरां पिबेत, यत् तत्रभवान् सुरां पिबेत्, यदा तत्रभवान् सुरां पिबेत्, यदि तत्रभवान् सुरां पिबेत् । अत्र सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिः-न श्रद्दधे न क्षमे जातु तत्रभवान् सुरामपास्यत् , पक्षे-पिबेत् । भविष्यति तु नित्यम्-जातु तत्रभवान् सुरामपास्यत् ॥१७॥ न्या० स०-जातुयद्यदा-भविष्यन्त्यपवाद इति–'अश्रद्धामर्षे' ५-४-१५ इति प्राप्तायाः। क्षेपे च यच्च-यत्रे ॥ ५. ४. १८ ॥ यच्च-यत्रशब्दयोरुपपदयोः क्षेपेऽश्रद्धाऽमर्षयोश्च गम्यमानयोर्धातोः सप्तमी भवति । अश्रद्धाऽमर्षयोभविष्यन्त्याः, क्षेपे तु सर्वविभक्तीनामपवादः । धिग गर्हामहे-यच्च तत्रभवानस्मानाक्रोशेव, यत्र तत्रभवानस्मानाक्रोशेव, न श्रद्दधे न क्षमे-यच्च तत्रभवान् परिवादं कथयेत्, यत्र तत्रभवान् परिवादं कथयेत् । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति-धिग गहमिहे न श्रद्दधे न क्षमे-यच्च यत्र वा तत्रभवानस्मानाक्रोक्ष्यत् , पक्षे-आक्रोशेत् । भविष्यति तु नित्यम्-धिग् गर्हामहे, न श्रद्दधे क्षमे यच्च यत्र वा तत्रभवान् परिवादमकथयिष्यत् ॥१८॥ .... चित्रे॥५. ४. ११ ॥ चित्रमाश्चर्यम् , तस्मिन् गम्यमाने यच्च यत्रयोरुपपदयोर्धातोः सप्तमी भवति । सर्वविभक्त्यपवादः। चित्रमाश्चर्यमद्भुतं विस्मनीयं-यच्च तत्रभवानकल्प्यं सेवेत, यत्र तत्रभवानकल्प्यं सेवेत । अत्रापि सप्तमीनिमित्तमस्तीति भूते क्रियातिपतने वा क्रियातिपत्तिर्भवति-चित्रं यच्च यत्र वा तत्र भवानकल्प्यमसेविष्यत् , पक्षे-सेवेत । भविष्यति तु नित्यम्-चित्रं वा यच्च वा तत्रभवानकल्प्यमसेविष्यत ।।१९।। न्या० स०-चित्रे-सर्वविभक्त्यपवाद इति-कालस्याऽनिर्देशात् त्रिष्वपि कालेष्वस्य प्रवर्तनात् । शेषे भविष्यन्त्ययदौ ।। ५. ४, २० ॥ शेते यच्च-यत्राभ्यामन्यस्मिन्नुपपदे चित्रे गम्यमाने घातोर्भविष्यन्ती विभक्तिर्भवति, - प्रयदौ-यदिशब्दश्चेन्न प्रयुज्यते । सर्वविभक्त्यपवादः । चित्रमाश्चर्यमन्धो नाम पर्वतमारोक्ष्यति, बधिरो नाम व्याकरणं श्रोष्यति, मूको नाम धर्म कथयिष्यति । अत्र सप्तमीनिमित्तं नास्तीति न क्रियातिपत्तिः । शेष इति किम् ? .
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy