SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ २२ ] बृहद्वत्ति-लघुन्याससंवलिते . [ पाद-३; सूत्र-५३-५८ दागोऽस्वाऽऽस्यप्रसार-विकासे ॥ ३. ३. ५३ ॥ आपूर्वाद् ददातेः कर्तर्यात्मनेपदं भवति, न चेत् स्वास्यप्रसारणं विकासश्चार्थो भवति । विद्यामादत्ते, धनमादत्ते। प्रस्वास्यप्रसार-विकास इति किम् ? उष्ट्रो मुखं व्याददाति,-प्रसारयतीत्यर्थः; कूलं व्याददाति, विपादिका व्याददाति, विकसतीत्यर्थः । स्वग्रहरणमिति किम् ? व्याददते पिपीलिकाः पतङ्गस्य मुखम् । प्राङ इत्येव ? ददाति । फलवन्तोऽन्यत्रायं विधिः ।। ५३ ॥ न्या० स०-दागोऽस्वा०-प्रसारणं प्रयोजकव्यापारः, विकासश्च कर्तृव्यापार इत्यनयोर्भेदः, विपूर्वात् कस गतावित्यतो घनि वृद्धौ विकासः । नु-प्रच्छः ॥ ३.३.५४॥ प्राङ्पूर्वान्नौतेः प्रच्छेश्च कर्तर्यात्मनेपदं भवति । प्रानुते शृगालः, उत्कण्ठितः शब्दं करोति, उत्कण्ठापूर्वके संशब्दे नौतेरयं विधिर्न सर्वत्र । प्रापृच्छते गुरून , आपृच्छस्व प्रियसखम्" [ मेघदूते ] वियुज्यमानस्य प्रश्नेऽयं विधिः। आङ इत्येव ? नौति, प्रणौति, पृच्छति, परिपृच्छति ॥ ५४॥ गमः क्षान्तौ ॥ ३. ३. ५५ ॥ .. क्षान्तिः कालहरणम् , तत्र वर्तमानाद् गमयतेरापूर्वकात् कर्तर्यात्मनेपदं भवति । आगमयते गुरुन् , कश्चित् कालं प्रतीक्षते; आगमयस्व तावत् , कश्चित् कालं सहस्वेत्यर्थः । क्षान्ताविति किम् ? आगमयति विद्याम् , गृह्णातीत्यर्थः। क्षान्तो स्वभावाद् गमिर्ण्यन्त एव वर्तते ॥५५॥ हः स्पर्धे । ३. ३.५६ ॥ आपूर्वाद् ह्वयतेः कर्तर्यात्मनेपदं भवति, स्पर्धे गम्यमाने । स्पर्धः संघर्षः,-पराभिभवेच्छा, स धात्वर्थस्य विशेषणम् , धात्वर्थश्च ह्वयतेरापूर्वस्य शब्द एव स्वभावात् । मल्लो मल्लमाह्वयते, स्पर्धमान आकारयतीत्यर्थः । स्पर्ध इति किम् ? गामह्वयति ।। ५६॥ सं-नि-वेः ॥३. ३. ५७॥ सं-नि-विभ्यः पराद ह्वयतेः कर्तर्यात्मनेपदं भवति । संह्वयते, नियते, विह्वयते ॥ ५७ ॥ उपात् ॥ ३. ३.५८ ॥ उपपूर्वाद ह्वयतेः कर्तर्यात्मनेपदं भवति । उपह्वयते । योगविभाग उत्तरार्थः ।।५८॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy