SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २६६ ] बृहद्वृत्ति-लघुन्याससंवलिते [ पाद- ३, सूत्र - १०९-११३ प्रकृतस्य क्रिया चैव प्राप्तेर्बाधनमेव च । श्रधिकार्थविवक्षा च त्रयमेतन्निपातनात् ॥ १०८ ॥ न्या० स०-भिवादय:- मृजेति निपातनसामर्थ्यादेव 'ऋतः स्वरे वा' ४-३-४३ इति वृद्धिर्न भवति । मेधा बुद्धिरिति केचित्तु मेघृगः स्थाने मिधृगिति पठन्ति सौत्रो वा । भीषि-भूषि-चिन्ति पूजि - कथि कुम्बि-चर्चि-स्पृहि-तोलि- दोलिभ्यः ।। ५. ३. १०१॥ एभ्यो ण्यन्तेभ्यः स्त्रियां भावाऽकर्त्रीरङ् भवति । ण्यन्तत्वादने प्राप्ते वचनम् । भीषा, भूषा, चिन्ता, पूजा, कथा, कुम्बा, चर्चा, स्पृहा, तोला, दोला । बहुवचनाद् यथादर्शनमन्येभ्योऽपि भवति पीडा, ऊना ।। १०९ ।। न्या० स० - भीषिभूषि-अप्रत्ययाधिकारेऽप्यस्मिन् कृते साध्यसिद्धिः स्यात् परं अङ्प्रत्ययाधिकारे यत्कृतं तण्णिगुलोपस्यानित्यत्वज्ञापनार्थं तेन चिन्तिया. पूजिया, सुप्रकथियेत्यादि सिद्धम् । उपसर्गादातः ।। ५. ३, ११० ॥ उपसर्गपूर्वेभ्य श्राकारान्तेभ्यो धातुभ्यः स्त्रियां भावाकर्त्रीरङ् भवति । उपदा, उपधा, आधा, प्रदा, प्रधा, विधा, संधा, प्रभा, श्वादित्वात् क्तौ प्रमितिः । उपसर्गादिति किम् ? दत्तिः । ११० ।। णि-वेत्यास-श्रन्थ-घट्ट-वन्देरनः ॥ ५. ३. १११ ॥ ण्यन्तेभ्यो वेस्त्यास - अन्य - घट्ट वन्दिभ्यश्च धातुभ्यः स्त्रियां भावाऽकर्त्रीरनः प्रत्ययो भवति । कारणा, हारणा, कामना, लक्षणा, भावना; वेदना, आसना, उपासना, अन्थना, ग्रन्थेरप्यन्ये - ग्रन्थना, घट्टना, वन्दना । वेत्तीति तिनिर्देशो ज्ञानार्थपरिग्रहार्थः ॥ १११ ॥ न्या० स० - णिवेत्त्यास - ज्ञानार्थपरिग्रहार्थ इति यङ लुप्नवृत्त्यर्थश्च तेनाऽस्मात् श्रवादिभ्यः क्तौ वेवित्तिः । इषोऽनिच्छायाम् ॥ ५. ३. ११२ ॥ निच्छायां वर्तमानात् स्त्रियां भावाऽकर्त्रीरनो भवति । अन्वेषणा, एषणा, पिण्डेषणा । अनिच्छायामिति किम् ? इष्टिः । कथं प्राणैषणा वित्तैषणा परलोकैषणा ? बहुलाधिकारात् ।। ११२ ।। पर्यधेर्वा ।। ५. ३, ११३ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy