SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ पाद-३, सूत्र २९-३३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२८१ शृ-शरः, ग्रहः । कथं वारः समूहः, वारोऽवसरः, वारः क्रियान्यावृत्तिः ? बहुलाधिकाराद् घञ् । परिवार इति तु ण्यन्तादचि सिद्धम् ॥२८।। न्या० स०-युवर्णवृ-उपसर्गावति च निवृत्तम्-'आङो रुप्लो' ५-३-४९ इति सूत्रकरणात् । वर्षादयः क्लीबे ॥ ५. ३. २१ ॥ वर्षादयः शब्दा अलन्ताः क्लीबे यथादर्शनं भावाऽकर्बोनिपात्यन्ते । नपुंसके क्ताऽनड्निवृत्त्यर्थं वचनम् । वर्ष भयं धनं वनं खलं पदम् । युगम्, अत्र रथाङ्गकालविशेष-युग्मेष्वल् गत्वगुणाभावौ च निपातनात् । अनपुंसकक्तस्तु असरूपविधिना भवत्येव-वृष्यते स्म-वृष्टं मेघेन, भीतं बटुना ॥२६॥ न्या० स०-वर्षाद-अननिवृत्त्यर्थमिति-तत्कि वर्षणमिति न भवति ? भवत्येव, वृषभो वर्षणादिति भाष्यकारवचनात् । वृष्टं मेघेनेति-अत्र भावे 'तत्साप्या' ३-३-२१ इति क्तः । समुदोऽजः पशौ ।। ५. ३. ३०॥ समुद्भ्यां परादजतेः पशुविषये धात्वर्थे वर्तमानात मावाऽकोरल् भवति । समजः पशूनाम् , समूह इत्यर्थः; उदज: पशूनां, प्रेरणमित्यर्थः। समुद इति किम् ? व्याजः पशूनाम् । पशाविति किम् ? समाजः साधूनाम् , उदाजः खगानाम् ॥३०॥ सृ-ग्लहः प्रजनाऽक्षे॥ ५. ३. ३१ ॥ सति-ग्लहिभ्यां यथासंख्यं प्रजनाऽक्षविषये धात्वर्थे वर्तमानाभ्यां भावाऽकोरल भवति । गवामुपसरः, पशूनामुपसरः, "वीनामुपसरं दृष्ट्वा ";. प्रजनो गर्भग्रहणम् , तदर्थ स्त्रीषु पुंसां प्रथमं सरणमुपसर उच्यते । अक्षाणां ग्लहः, ग्रहणमित्यर्थः, प्रहः सूत्रनिपातनाल्लत्वम् , ग्लहिः प्रकृत्यन्तरं वा । प्रजनाऽक्ष इति किम् ? उपसारो भृत्य राज्ञाम् , ग्लहः ग्लाहो वा पादस्य । कथं परिसरविषमेषुलोढमुक्तौ ? प्रधिकरणे पुंनाम्नि घेन सिद्धम् ॥३१॥ पणेर्माने ॥ ५. ३. ३२ ॥ पणेर्मानेऽर्थे वर्तमानाद् भावाऽकोरल भवति । मूलकपणः, शाकपणः, पण्यत इति पणः, मूलकादीनां संव्यवहारार्थ परिमितो मुष्टिरित्यर्थः । माने इति किम् ? पाणः। 'घञोऽपवादो योगः ॥३२॥ संमद-प्रमदौ हर्षे । ५. ३. ३३ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy