SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-९३ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२७३ "संज्ञासु धातुरूपाणि प्रत्ययाश्च ततः परे ॥ कार्यानुबन्धोपपदं विज्ञातव्यमुणादिषु ॥१॥" तथा-- "बाहुलकं प्रकृतेस्तनुदृष्टे: प्रायसमुच्चयनादपि तेषाम् । कार्यसशेषविधेश्च तदूह्य, नैगम-रूढिभवं हि सुसाधु ॥२॥ नाम च धातुजमाह निरुक्ते, व्याकरणे शकटस्य च तोकम् । यन्न पदार्थविशेषसमुत्थं, प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥३॥ इति ॥९३॥ इत्याचार्यश्रीहेमचन्द्रविरचितायां सिद्धहेमचन्द्राभिधानस्वोपज्ञशब्दानुशासनवृत्ती पश्चमस्याध्यायस्य द्वितीयः पादः । अकृत्वाऽऽसननिन्धमभित्त्वा पावनी गतिम् । सिद्धराजः परपुरप्रवेशवशितां ययौ ॥१॥ न्या० स०-उणादयः-प्रायसमुच्चयनादपीति-प्रायेण अकृत्स्नबहुत्वेन समुच्चयनं राशीकरणम् । कार्यसशेषविधेश्चेति-काक इत्यादिसिद्ध्यर्थं सूत्रान्तरं न प्रारेभे इति सविशेषविधित्वम् । इत्याचार्यश्री सिद्धहेमचन्द्राभिधानस्वोपज्ञ-शब्दानुशासनबृहवृत्तेः पञ्चमाध्यायस्य न्यासतः द्वितीयः पादः समाप्तः। . . . .
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy