SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २६८ ] बृहद्वृत्ति लघुन्यास संवलिते [ पाद-२, सूत्र - ७३-७८ ग्रहणम्, क्षयी, विश्रि - विश्रयी, परिभू-परिभवी, वम्-वमी, अभ्यम् - अभ्यमी, अव्यथ्-न व्यथते इति - अव्यथी ।। ७२ ।। न्या० स०- - जीण् दृक्षि- क्षिक्षतोरिति क्षिष्श् इत्यस्य तु सानुबन्धत्वान्न ग्रहः । सृ-घस्यदो मरक् ।। ५. २. ७३ ।। यः शीलादौ सत्यर्थे वर्तमानेभ्यो मरक् प्रत्ययो भवति । सरतीत्येवंशील :- सृमर:, घस्मरः, अद्मरः ॥ ७३ ॥ भञ्जि-भासि-मिदो घुरः ।। ५. २. ७४ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो घुरः प्रत्ययो भवति । भज्यते स्वयमेवेत्येवंशीलं - भङ्गुरं काष्ठम् । भासते - भासुरं वपुः, मेद्यति मेदते वामेदुरः । घकारो गत्वार्थः । । ७४ ।। न्या० स० - भञ्जिभासि - 'व्याप्ये घुरकेलिम' ५ - १ - ४ इति घुरप्रत्ययस्य व्याप्ये कर्त्तरि विधानादित्याह -भज्यते स्वयमेवेत्यादि - भासिमिदिविदां तु कर्त्तर्येव घुरोऽकर्मकत्वेन कर्म्मकतु रसंभवात् । वेत्ति - विद- भिदः कित् ।। ५. २.७५ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः किद् घुरः प्रत्ययो भवति । वेत्तीत्येवंशीलो - विदुरः, छिद्यते भिद्यते स्वयमेव - छिदुर, भिदुर:, कित्त्वाद गुणो न भवति । वेत्तीति तिनिर्देश इतर विदित्रयव्युदासार्थः ॥ ७५ ॥ 1 भयो रु. रुक- लुकम् ।। ५. २. ७६ ।। शीलादौ सत्यर्थे वर्तमानाद् बिभेते 'रु रुक लुक' इति प्रत्ययत्रयं किद् भवति । बिभेतीत्येवंशीलो - भीरुः, भीरुकः भीलुकः । ऋफिडादित्वात् लत्वं प्रयोगानुसारद् गरी इति लाघवार्थ लुकवचनम् ॥७६॥ सृ- जीण्-नशष्ट्वरप् ।। ५. २. ७७ ॥ एभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यः कित् ट्द्वरप् प्रत्ययो भवति । सरतीत्येवंशील :- सृत्वरः, सृत्वरी, जित्वरः, जित्वरी । इण् इत्वरः, इत्वरी । क्रूरकर्मणि पथिके नीचे दुर्विधे । नश्वरः, नश्वरी । टकारो ङयर्थः । पकारस्तागमार्थः ॥७७॥ गत्वरः ।। ५. २. ७८ ॥ रामेष्ट्वरप् मकारस्य च तकारो निपात्यते । गत्वरः, गत्वरी ॥७८॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy