SearchBrowseAboutContactDonate
Page Preview
Page 274
Loading...
Download File
Download File
Page Text
________________ पाद - २, सूत्र - ५५ ६१ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः वेः प्राच्च पराच्छीलादौ सत्यर्थे वर्तमानाद् द्रवर्तोधनण् भवति । विद्रवतीत्येवंशोलो - विद्रावी, प्रद्रावी ।।५४॥ वि-परि-प्रात् सः । ५. २. ५५ ।। वि-परि- प्रेभ्यः पराच्छीलादौ सत्यर्थे वर्तमानात् सर्त्तेधिनण् भवति । विसरतीत्येवंशीलो-विसारी, परिसारी, प्रसारी ॥५५॥ समः पृचैप्-ज्वरेः ।। ५. २. ५६ ॥ शीलादौ सत्यर्थे वर्तमानाभ्यां समः पराभ्यां पृणक्ति-ज्वरिभ्यां घिनण् भवति । संपूणीत्येवंशील:- संपर्को । पिन्निर्देशादादादिकस्य न ग्रहणम्-संपचिता । संज्वरतीत्येवंशील :- संज्वारी । केचिद् ण्यन्तादपीच्छन्ति-संज्वरी । त्वरयतेरपि कश्चिद्- संत्वरी । कर्मकादित्येव ? संपृणक्ति शाकम् ।। ५६ ।। सं-वेः सृजः ।। ५. २. ५७ ॥ शीलादौ सत्यर्थे वर्तमानात् सं विभ्य परात् सृजेधिनण् भवति । संसृजतीत्येवंशीलः संसृज्यते वा संसर्गी, विसर्गी ॥५७॥ [ २६५ सं-परि-व्यनु- प्राद् वदः || ५. २.५८ ॥ शीलादौ सत्यर्थे वर्तमानात् सं परि-व्यनुप्रेभ्यः पराद् वदेघनण् भवति । संवदतोत्येवंशील :- संवादी, परिवादी, विवादी, अनुवादी, प्रवादी। परिपूर्वाण्ण्यन्तादपीति केचित् ॥ ५८ ॥ वेर्विच कत्थ- सम्भू- कष-कस-लस- हनः ।। ५. २. ५१ ॥ एभ्यो विपूर्वेभ्यः शीलादौ सत्यर्थे वर्तमानेभ्यो घिनण् भवति । विविक्तीत्येवंशीलो - विवेकी । विकत्थी, विस्रम्भी, विकाषी, विकासी, विलासी, विघाती ॥५६॥ व्यपा- भेर्लषः ।। ५. २. ६० ॥ व्यपाऽभिभ्यः पराच्छीलादौ सत्यर्थे वर्तमानाल्लषेघनण् भवति । विलषतीत्येवंशीलो - विलाषी, अपलाषी, अभिलाषी ॥ ६०॥ संप्राद् वसात् ।। ५. २. ६१ ॥ सं-प्राभ्यां पराच्छीलादौ सत्यर्थे वर्तमानाद् वसतेधिनण् भवति ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy