SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति-लघुन्यास संवलिते [ पाद- २, सूत्र - २१-२२ द्वितीयाद्यन्तपदेति शत्रानशोर्वर्त्तमानायाश्च समानविषयत्वेऽपि नातिप्रसक्तिरपि, द्वितीयाद्यन्तेन पदेन द्रव्याभिधायिना वर्त्तमानान्तेन च क्रियाभिधायिना सत्ता पश्येत्यादिक्रियायाः सामानाधिकरण्यासंभवात् संबोधने च सिद्धविषयत्वात् साध्यवाचिनि वर्त्तमानान्तानुपपन्नत्वात्तरादिवर्जिततद्धितप्रत्ययस्योत्तरपदस्य च नामत्वे सति संभवाल्लक्षणहेतुत्वयोरपि सिद्धधर्मत्वात् साध्याभिधायिनाऽन्वयायोग, एतदेव पचन्तमित्यादिना क्रमेण दर्शयति । २५६ ] कुर्वन् भक्तिरस्येति-भज्यत इति कर्म्मणि क्तो भक्तिः सेव्य इत्यर्थः, अत्र वाच्ये पुंलिङ्गेऽपि शब्दशक्तिस्वाभाव्यात् क्त्यन्तस्य स्त्रीलिङ्गतैव । तिष्ठन्तोऽनुशासति गणका इति अत्राऽनुशासन क्रियया गणका लक्ष्यन्ते सा चाऽनुशासनक्रिया उपविष्ट उर्द्धं गच्छ - त्युभयविषयत्वेन दुर्लक्षा अतः स्थानक्रियया लक्ष्यते । नन्वनुशासतीत्यत्रापि वर्त्तमाना न प्राप्नोति, यतोऽनयापि गणका लक्ष्यन्ते ? न, क्रियायाः कर्म्मतापन्नाया लक्षणमिति वचनात् द्रव्यादेर्गणकस्य लक्षणे वर्त्तमाना भवत्येव । चादियोगे न भवतीति न केवलं द्रव्यगुणयोलक्षणे चादियोगे सति क्रियाया अपि लक्षणे न भवति यः पचति चेत्यादौ न क्रिययोलक्ष्यलक्षणभावो विवक्षितः क्रमेण हि प्रतीयमानयोरर्थयोर्लक्ष्यलक्षणभावः स्याज्जन्यजनकभावो वा अत्र तु तुल्यकालतैव क्रिययोरत एव तद्योतकौ च शब्दो प्रयुज्येते इति । स मैत्र इत्युभयत्र संबध्यते इति द्रव्यलक्षणे न भवति, क्रियालक्षणेऽपि न भवति, तथाहि - कुत्रापि एकस्मिन् प्रमातरि पचन पठनयोर्लक्ष्यलक्षणभावो येन गृहीतः स एवं ब्रवीति यः पचति च स पठति च, एवं पचनक्रियालक्षणं पठनक्रिया लक्ष्या, चादियोगाऽभावे तु शत्रानशौ भवत एव, यथा पचन् पचमानो वा सं पठति । तौ मायाको शेषु ।। ५. २. २१ ।। माय पपदे आक्रोशे गम्यमाने सति तौ शत्रानशौ प्रत्ययौ भवतः, बहुवचनादसत्यपि । मा पचव् वृषलो ज्ञास्यति, मा पचमानोऽसौ मर्तु कामः । "मा जीवन् यः परावज्ञादुःखदग्धोऽपि जीवति । तस्याजननिरेवास्तु, जननीक्लेशकारिणः ॥१॥ ( शिशुपालवधे, सर्ग - २ ) शत्रानशोरनुवृत्तावपि 'तौ' ग्रहणमवधारणार्थम्, तेनात्र विषये श्रसरूपविधिनाप्यद्यतनी न भवति । भवतीत्यपि कश्चित् ।। २१॥ न्या० स०-तौ माझ्या - बहुवचनादसत्यपीति तेन ये केचित् सत्यसति वा आक्रोशास्तेषु शत्रानशौ भवत इति व्याख्येयम् । मा पचन् वृषल इत्यादि मा पाक्षीत् मा पक्त, मा जोवीदित्यादि वाक्यमर्थकथनम्, यावता आक्रोशविवक्षायामनेन शत्रानशावेव, असरूपविधिनाप्यत्राद्यतनी नेष्टा । केचिदsसरूपविधिमिच्छन्ति, तन्मतेन वा वाक्यम् यद्वा मा क्लेदयन्, मा क्लेदयमानः, मा प्राणान् धारयन्नित्यर्थान्तरेण वा वाक्यम् 1 वा वेत्तेः क्वसुः ॥ ५. २. २२ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy