SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५२ ] बृहद्वृत्ति- लघुन्याससंवलिते [ पाद - २, सूत्र - १३-१५ ह-शश्वद्-युगान्तःप्रच्छये ह्यस्तनी च ।। ५. २. १३ ॥ पञ्च युगं, तस्यान्तर्मध्यं तत्र पृच्छयते यः स युगान्तः प्रच्छद्यः । शश्वति च प्रयुज्यमाने, युगान्तः प्रष्टव्ये च भूतानद्यतने परोक्षेऽर्थे वर्तमानाद् धातोह्यस्तनी परोक्षा च विभक्ती भवतः । " इति हाऽकरोत् इति ह चकार शश्वदकरोत् शश्वच्चकार । प्रच्छ्ये- किमगच्छस्त्वं मथुराम् ? कि जगन्थ त्वं मथुराम् ? ह- शश्वद्युगान्तः प्रच्छय इति किम् ? जघान कंसं किल वासुदेवः । वेत्येव कृते भूतानद्यतनमात्र भाविन्या ह्यस्तन्याः पक्षे सिद्धौ ह्यस्तनीविधानं स्मृत्यर्थयोगेऽपि ह्यस्तन्येव यथा स्यान्न भविष्यन्तीत्येवमर्थम् तेन स्मरसि मित्र ! कश्मीरेष्वितिहाध्यैमहि, श्रभिजानासि चैत्र ! शश्वदध्यैमहि, इत्यादि सिद्धम् । क्रियान्तराकाङ्क्षायां तु ह - शश्वत् प्रयोग एव न संभवतीति नोदाह्रियते ॥ १३ ॥ J न्या० स० - हशश्वद्यु - इतिहाकरोदिति निपातसमुदाय: प्रवादपारंपर्य इतिहाशब्दो वर्त्तते, यद्वा एतत् ह इति वाक्यालंक। रे । प्रयोग एव न संभवतीति-नियातानां यथादर्शनं प्रयोगात् । अविवक्षिते । ५. २. १४ ॥ भूतानद्यतने परोक्षे परोक्षत्वेनाविवक्षितेऽर्थे वर्तमानाद् धातोर्ह्यस्तनी विभक्ति भवतिः । अभवत् सगरो राजा, श्रहन् कंसं वासुदेवः । एवं च परोक्षानद्यतने विवक्षावशादद्यतनी - ह्यस्तनी - परोक्षास्तिस्रो विभक्तयः सिद्धाः । तथा च "प्रन्वनेषीत् ततो वाली न्यक्षिपच्चाङ्गदं सुग्रीवं प्रोचे सद्भावमागतः ।” 'राक्षसेन्द्रस्ततोऽभैषीत् सैन्यं समस्तं सोऽयुयुत्सयत् स्वयं युयुत्सयांच' । तथा "अभूवंस्तापसाः केचित् पाण्डुपत्रफलाशिनः । पारिव्राज्यं तदाऽऽवत मरीचिश्व तृषादितः । " इति ॥ १४ ॥ न्या० स० - श्रविवक्षिते - तिस्रोऽपि विभक्तय इति - परोक्षत्वेन वा विवक्षिते विशेषाविवक्षा' ५-२-५ इत्यद्यतनी, परोक्षत्वेन त्वऽविवक्षितेऽनेन ह्यस्तनी, उभयसद्भावविवक्षायां तु 'परोक्षे' ५-२-१२ इत्यनेन परोक्षा । वानी पुरादौ । ५. २. १५ ॥ 'परोक्षे' इति निवृत्तम्, भूतानद्यतने परोक्षे चापरोक्षे चार्थे वर्तमानाद् धातोः 'पुरा' इत्यादावुपपदेऽद्यतनी विभक्तिर्भवति वा । अपरोक्षे ह्यस्तन्याः परोक्षं तु परोक्षाया अपवादः । वावचनात् पक्षे यथाप्राप्ति ते अपि भवतः । अवात्सुरिह पुरा छात्राः, अवसन्निह पुरा छात्राः ऊषुरिह पुरा छात्राः, तदाऽभाषिष्ट राघवः, तदाऽभाषत राघवः, बभाषे राघवस्तदा । भूतानद्यतनपरोक्षेऽद्यतनीं नेच्छ
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy