SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ पाद-१, सूत्र ६४-७० ] श्रीसिद्धहेमचन्द्रशब्दानुशासने पंचमोऽध्यायः [२२३ तन्-व्यधीण-श्वसातः ॥ ५, १.६४ ॥ 'तन् व्यधि इण् श्वस्' इत्येतेभ्य प्रादन्तेभ्यश्च धातुभ्यो णः प्रत्ययो भवति । तानः, उत्तानः, अवतानः । व्याधः, प्रत्यायः, अत्यायः, अन्तरायः । अतिपूर्वादेवेण इत्येके । श्वासः, आश्वास: । आदन्त अवश्यायः, प्रतिश्यायः; ग्लायः, म्लायः । कथं ददः दधः? ददिदध्योरचा सिद्धम् ॥६४।। नृत्-खन्-रञ्जः शिल्पिन्यकट् ॥ ५. १. ६५ ॥ नति-खनि-रजिभ्यः शिल्पिनि कर्तर्यकट प्रत्ययो भवति । शिल्पं कर्मकौशलम् , तद्वान् शिल्पी। नर्तकः, नर्तकी; खनकः, खनको; रजकः, रजकी। शिल्पिनीति किम् ? नतिका, खानकः, रञ्जकः । टकारो ड्यर्थः ।।६५।। गस्थकः ॥ ५. १.६६ ॥ गायतेः शिल्पिनि कर्तरि थकः प्रत्ययो भवति । गाथकः । गाङ: प्रत्यये शिल्पी न गम्यत इति गायतेर्ग्रहणम् ।।६६।। न्या० स०-गस्थकः-शिल्पी न गम्यत इति-शब्दशक्तिस्वाभाव्यात् । टनण् ॥ ५. १.६७ ॥ गायते: शिल्पिनि कर्तरि टनण् प्रत्ययो भवति । गायनः, गायनी। टकारो ड्यर्थः । णकार ऐकारार्थः । योगविभाग उत्तरार्थः । एतौ प्रत्ययावशिल्पिन्यपीत्येके ॥६७।। न्या० स०-टनण-एके इति–तन्मते गामादाग्रहणे सामान्यग्रहणमिति न्यायात् गायतेर्गाङश्व ग्रहः। हः काल-ब्रीह्योः॥ ५. १.६८ ॥ जहातेजिहीतेर्वा कालवीह्योः कर्बोष्टनण् प्रत्ययो भवति । जहाति जिहोते वा भावान्-हायनः संवत्सरः, जहत्युदकं दूरोत्थानाव जिहते वा द्रुतंहायना नाम वोहयः । काल-व्रोह्योरिति किम् ? हाता ॥६॥ प्र-सृ-वोऽकः साधौ ।। ५. १. ६१ ॥ ' स लू' इत्येतेभ्यो धातुभ्यः साधुत्व-विशिष्टेऽर्थे वर्तमानेभ्योऽक: प्रत्ययो भवति । साधु प्रवते इति-प्रवकः, एवं-सरकः, लवकः । साधाविति किम् ? प्रावकः, सारकः, 'लावकः ॥६९॥ आशिष्यकन् ॥ ५. १.७० ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy