SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ १६६ ] बृहवृत्ति-लघुन्याससंवलिते [पाद-३, सूत्र-९८-१०३ न्तलोपविधानाव्यञ्जनादौ लब्धे व्यञ्जनग्रहणं साक्षाव्यञ्जनप्रतिपत्यर्थम् , तेन क्विब्- । लुकि स्थानिवद्भावेनापि न भवति,-शंस्थाः पुमान् ॥१७॥ न्या० स०-ईय॑जने०-हाङो न भवतीति-'हाकः' ४-२-१०० इति भणनात् । शंस्था इति-शं सुखं तत्र तिष्ठति 'शमो नाम्न्यः' ५-१-१३४ इति अप्रत्ययापवादे 'स्थापास्ना' ५-१-१४२ इति के प्राप्तेऽसरूपत्वात् क्विप् , शंस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीच्छन्त्येके, तथा च जयकुमार: 'पां पाने' इत्यस्य क्विपि पीरित्याह । घ्राध्मोयेङि॥ ४. ३.१८॥ घ्राध्मोर्यङि परे ईकारोऽन्तादेशो भवति । जेघ्रीयते, देध्मीयते । यडीति किम् ? घ्रायते, ध्मायते, यलुपि,-जाघ्रोतः, दाध्मीतः । अन्ये तु यङ्लुप्यपीच्छन्ति-जेघ्रोतः, देमीतः ॥१८॥ हनो नीर्वधे ॥ ४. ३. ११ ॥ हन्तेर्वधे हिंसायां वर्तमानस्य यङि हनी इत्यादेशो भवति । जेनीयते, द्विषो जेनीयिषीष्ट वः । वषे इति किम् ? गतौ-जंघन्यते, केचिदिमं विकल्पेनाहः, त्वं तु राजन चटकमपि न जंघन्यसे । दीर्घनिर्देशात् यङ्लुप्यपि-जेनीतः, नेच्छन्त्यन्ये जंघत इति भवति ॥१९॥ न्या० स०-हनो०-यङ्लुप्यपीति-यदि पूर्वसूत्रवत् यङयेव स्यात्तदा निरित्येव कुर्याद्दीघसिद्धावित्यर्थः । ञ्णिति घात् ।। ४. ३.१००॥ णिति प्रत्यये परे हन्तोर्धात इत्ययमादेशो भवति । घातः, घातयति, घातकः, साधुघाती, घातंघातम् । भियतीति किम् ? हतः ॥१०॥ त्रिणवि घन ॥ ४. ३. १०१ ॥ जौ णवि च प्रत्यये परे हन्तेर्घन् इत्ययमादेशो भवति । अघानि, जघान, महं जघन, अहं जघान ।।१०१॥ न्या० स०-मिणवि०-'अङ हिहनः' ४-१-३४ इति सिद्धौ णग्रहणं घात्बाधनार्थम् । नशेर्नेश वाङि॥ ४. ३. १०२॥ नशेरडि परे नेश् इत्ययमादेशो वा भवति । अनेशव , अनशन , अनेशताम् , अनशताम् , अनेशन् , अनशन , अनेशम् , अनशम् । अङीति किम् ? नश्यति ॥१०२॥ श्वयत्यसूवचपतः श्वास्थवोचपप्तम् ॥ ४. ३. १०३ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy