SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्ति - लघुन्याससंवलिते दूधेघाशाळासो वा ॥ ४. ३. ६७ ॥ एभ्यः परस्य सिचः परस्मैपदे वा लुप् भवति, लुप्संनियोगे चंतेभ्य इट् न भवति । ट्वें- अधात्, अधासीत्, घ्रां अघ्रात् प्रघ्रासीत्, शों- अशात्, अशासीत् छोंअच्छात्, प्रच्छासीत् सों सें वा- आसात् प्रसासीत् । परस्मै इत्येव, अधिषातां स्तनौ वत्सेन, ट्धः पूर्वेण नित्यं प्राप्ते शेषेभ्योऽप्राप्ते विकल्पः ।। ६७ ।। न्या० स०० - वे घ्राशा - छाशोः सोर्मध्ये पाठाभावान्न साहचर्यं तेन न दैवादि १५८ ] कस्यैव | , [ पाद- ३, सूत्र - ६७-७० तन्भ्यो वा तथासि न्णोश्व ॥ ४. ३. ६८ ॥ तनादेर्गणात्परस्य सिचस्ते थासि च प्रत्यये परे लुब्वा भवति, तत्संनियोगे च नकारस्य णकारस्य च लुब् भवति न चेट् । प्रतत, प्रतनिष्ट अतथा:, अतनिष्ठाः, असत, असनिष्ट, असथाः, प्रसनिष्ठाः, अक्षत, अक्षणिष्ट, अक्षया:, अक्षणिष्ठाः, आर्त, आणिष्ट, प्रार्थाः, प्राणिष्ठा:, अतृत, अतनिष्ट, अतृथाः, अतणिष्ठा:, अघृत, अर्घाणष्ट, प्रघृथाः, श्रर्घाणिष्ठा:, अवत अवनिष्ट, श्रवथाः, अवनिष्ठा, अमत, अमनिष्ट, अमथाः, अमनिष्ठाः । इह परस्मै इति निवृत्तम् थास्ग्रहणात्, थास्साहचर्यात्तप्रत्ययोऽप्यात्मनेपदसंबन्ध्येव गृह्यते तेनेह न भवति । अतनिष्ट यूयम् || ६८ || न्या० स० तन्भ्यो वा०- न्णोश्चेति केचित् क्षणूगादीन् णोपदेशान्मन्यन्ते, तन्मतसंग्रहार्थं णकारकरणं स्वमते तु लाक्षणिकत्वात् णकारस्य नग्रहणेनापि सिद्धम् । प्रततेति'न वृद्धिश्चाविति' ४-३ - ११ इति निषेधान्न गुणः, यद् वा सिच्प्रत्ययेनाद्यतन्युपलक्षणात् 'सिज्लोपे ऋवर्णात्' ४- ३ - ३६ इति अद्यतन्याः कित्त्वं, 'लुप्यय्वृल्लेनत्' ७-४-११२ इत्यत्र नत्र निद्दिष्टस्यानित्यत्वाद् वा सिचः स्थानित्वे तस्यैव कित्त्वं सिजाशिषाविति । सनस्तत्रा वा ।। ४. ३. ६१ ॥ सनोतेस्तत्र लुपि सत्यामन्तस्य वा आकारो भवति । असात असत, प्रसाथाः, असथाः । तत्रेति किम् ? असनिष्ट, असनिष्ठाः केचिदात्वं न मन्यन्ते, नित्यमेवान्ये ।। ६६॥ घुड़स्वाल्लुगनिटस्तथोः ॥ ४. ३. ७० ॥ घुन्ताद् हस्वान्ताच्च धातोः परस्यानिटस्सिचस्तकारादौ यकारादौ च प्रत्यये लुग् भवति । अभत्ताम्, अमेत्तम्, अभंत, अभित्त, प्रभित्थाः, वस् अवात्ताम्, अवात्तम्, अवात्त, ह्रस्व-प्रकृत, अकृथाः, समस्थित, समस्थिथाः, श्राहत, ग्राहथाः । घुड्हस्वादिति किम् ? अमंस्त, श्रमंस्थाः, अच्योष्ट, अच्योष्ठाः, लुकः परत्वेऽपि नित्यत्वात्प्रागेव गुणः । तयोरिति किम् ? अभित्साताम्, अभित्सत, अकृषाताम् अकृषत । प्रनिट इति किम् ? व्यद्योतिष्ट, व्यद्योतिष्ठाः । हस्वान्ताद्धातोरिति किम् ? प्रास्नाविष्ट गौ: स्वयमेव अलाविष्टाम्, अलविष्ट । जेरिटश्च परस्य लोपो माभूत्, लुबधिकारे लुम्ग्रहणं 1 "
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy