SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-४४-४६ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [१२१ गम-हन-जन-खन-घसः स्वरेऽनङि क्ङिति लुक् ॥ ४. २. ४४ ॥ एषामुपान्त्यस्याङ्वजिते स्वरादौ विङति प्रत्यये परे लुग भवति । किति-गम् , जग्मतुः, जग्मुः। हन्-जघ्नतुः, जघ्नुः । जन-जज्ञे, जज्ञाते, जज्ञिरे । खन्-चख्नतुः, चख्नुः । घस्-जक्षतुः, जक्षुः, जक्षिवान् , ङिति-घ्नन्ति । कतीह निघ्नानाः । कथं जज्ञतुः जजुः इति छान्दसावेतौ । स्वर इति किम् ? गम्यते, हन्यते । अनङीति किम् ? अगमत, अघसत् । विङतीति किम ? गमनम् , हननम् ।। ४४ ॥ न्या० स०-गमहन०-कथं जज्ञतुरिति-धातोरात्मनेपदित्वात् कथं परस्मैपदमित्याशयः । छान्दसाविति-जुहोत्यादौ जन जनने परस्मैपदिनं छान्दसं पठन्ति तस्याऽयं प्रयोग इष्यते। नो व्यञ्जनस्यानुदितः॥ ४. २. ४५ ॥ ___ व्यञ्जनान्तस्यानुदितो धातोरुपान्त्यस्य नकारस्य पिङति प्रत्यये परे लुग्भवति । स्रस्तः, सस्तवान् , स्रस्यते, सनीलस्यते, ध्वस्तः, ध्वस्तवान् , ध्वस्यते, दनीध्वस्यते, अस्तभत् , अग्लुचत् , परिष्वजते, परिष्वजेते । व्यञ्जनस्येति किम् ? नीयते, नेनीयते । अनुदित इति किम् ? टुनदु नन्द्यते, नानन्द्यते, विडतीत्येव,-स्र सिता, ध्वंसिता । उपान्त्यस्येत्येव,-नह्यते, नानह्यते ॥ ४५ ॥ अञ्चेरनर्चायाम् ॥ ४. २. ४६॥ ___ अञ्चेरन यामेव वर्तमानस्योपान्त्यनकारस्य लुग् भवति । उदक्तमुदकं कपात , अन_यामिति किम् ? अञ्चिता गुरवः, पूर्वण सिद्ध नियमार्थो योगः ॥४६॥ लङ्गि-कम्प्योरुपतापाङ्ग-विकृत्योः ॥ ४. २. ४७ ॥ लङ्गिकम्प्योरुपान्त्यनकारस्य यथासंख्यमुपतापेऽङ्गविकारे चार्थे क्ङिति प्रत्यये लुग्भवति । विलगितः, विकपितः । उपतापाङ्गविकृत्योरिति किम् ? विलङ्गितः, विकम्पितः । लङ्गिकम्प्योरुदित्त्वात् पूर्वेणाप्राप्ते वचनम् । द्विवचनं क्ङितीत्यनेन यथासंख्यनिवृत्त्यर्थम् ।४७। न्या० स०-लङ्गिकम्प्यो०-विगलित इति-विगल्यते स्म, रोगादिनोपतापितः । विलङ्गित इति-विलङ्गति स्म केनचिदङ्गेन हीन इत्यर्थः । विकम्पित इति-विकम्पते स्म मनसि कम्पित:, चित्ते भीत इत्यर्थ इति नाऽङ्गविकृतिः । भञ्जनौं वा ॥ ४. २.४८॥ भजेरुपान्त्यनकारस्य नौ परे लुम्वा भवति । प्रभाजि । अभजि ।।४।। दंश-सञ्जः शवि ॥ ४. २. ४१ ॥
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy