SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-३७-४० ] श्री सिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [ ११९ अबभाषत , दीप-प्रदीदिपद , अदिदीपत , पीड्-अपीपिडत , अपिपोडत , जीव-अजीजिवत् , अजिजीवत् , मोल-अमोमिलत् , अमिमीलत् , कण-अचीकणत् , अचकाणत् , रण-अरीरणत् , अरराणत् , बण्-अबीबणत् , प्रबबाणत् , भण-प्रबीभणत् , अबमाणत् , श्रण-प्रशिश्रणत् , प्रशश्राणत् , हग-अजूहवत् , अजुहावत् , हेठ-अजीहिठत् , प्रजिहेठत् , लुट्अलूलुटत् , अलुलोटत् , लुप्ल अलूलुपत् अलुलोपत् , लप्-अलीलपत्, अललापत् बहुवचनं शिष्टप्रयोगानुसारेण अन्येषामपि परिग्रहार्थम् ॥३६।। न्या० स०-भ्राजभास०-अशिश्रणदिति-शण श्रण दाने इत्यस्य दानेऽर्थे ह्रस्वत्वं घटादित्वात् सिद्धं पाकरूपेऽर्थान्तरे त्वऽनेन विकल्पः, 'श्रणण् दाने' इत्यस्य तु 'यमोऽपरिवेषणे णिचि च' ४-२-९ इत्यनेन णिचि यम एवेति नियमादऽप्राप्तं विकल्प्यते । अन्येषामपोति-तेन अबिभ्रसत् अबभ्रासदित्यादि सिद्धम् । ऋहवर्णस्य ।। ४. २.३७ ॥ धातोरुपान्त्यस्य ऋवर्णस्य ङपरे णौ वा ऋकारो भवति । प्रवीवृतत् , अववर्तत् , अवीवृधत्, अववर्धत् , अमीमजत् , अममार्जत् , अदीदृशत् , अददर्शत्, अवीकृतत् , अचिकीर्तत् । वचनसामर्थ्यादीादेशौ बाध्येते । उपान्त्यस्येत्येव -अचीकरत् ॥३७॥ ___न्या० स०-ऋडवर्णस्य - ननु किमर्थं वर्णग्रहणं ऋदृत इत्येतावदास्ताम् ? न, यद्येवं क्रियते तदाऽचीकृतदित्ययं प्रयोगो न निष्पद्यते, अथ पाठकालेऽपि कृतण् इति पठिष्यते, न, तदा ऋत इत्येतस्याऽन्यत्र ऋकारे चरितार्थत्वात् अत्र कीादेश एव स्यात् , अथ कीर्तण इत्यऽपठनादेवाऽस्यापि ऋद्भविष्यति, तदा यदाऽनित्यो हि णिच्चुरादीनामिति न्यायेन णिजऽभावस्तदा कृतण् इति पाठे कृततीति न स्यात् किन्तु कर्त्ततीत्यनिष्टं स्यादिति वर्णग्रहण, ह्रस्वाधिकारेणैव सिद्धे ऋत्करणमचीकृतदित्यत्र गुणनिषेधार्थं, ह्रस्वकरणसामर्थ्याद् गुणो न भविष्यतीति न वाच्यं गुणकरणे ह्रस्वस्य चरितार्थत्वात् । जिघ्रतेरिः॥ ४. २, ३८ ॥ जिघ्रतेरुपान्त्यस्य ङपरे णाविकारो वा भवति । अजिघ्रिपत् , अजिघ्रपत् । तिनिर्देशो यलुनिवृत्त्यर्थः । अजाघ्रपत् ॥३८।। तिष्ठतेः॥ ४, २, ३१ ॥ तिष्ठतेरुपान्त्यस्य ङपरे णाविकारो भवति । अतिष्ठिपत् , अतिष्ठिपताम् , अतिष्ठिपन् । तिनिर्देशो यङ्लुनिवृत्त्यर्थः । प्रतास्थपत् , योगविभागो नित्यार्थः ॥३९॥ ऊदुषो णौ ॥ ४. २. ४० ॥ दुरुपान्त्यस्य णौ परे ऊकारादेशो भवति-दुष्यन्तं प्रयुङ्क्ते दूषयति, प्रदूष्य गतः । णाविति किम् ? दोषो वर्तते, धातोः स्वरूपग्रहणे तत्प्रत्ययविज्ञानादिह न भवति । दोषणं
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy