SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-२२-२४ ] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [११३ पदिति-'मिमीमादामित्स्वरस्य' ४-१-२० इत्यनेन मूलधातोरित्कार्यमऽद्वित्वं च भवति, तेनाऽत्र 'असमानलोपे' ४-१-६३ इत्यनेन पूर्वस्य इल्लक्षणं सन्वत्कार्य न भवति । स्फाय स्फाव् ॥ ४. २. २२॥ स्फायतिौ परे स्फाव् इत्ययमादेशो भवति । स्फावयति । अभेदनिर्देशोऽन्ताधिकारनिवृत्त्यर्थः ॥२२॥ शदिरगतौ शात् ॥ ४. २. २३ ॥ शीयतेरगतावर्थे णौ परे शात् इत्ययमादेशो भवति । पुष्पाणि शातयति । अगताविति किम् ? गोपालको गाः शादयति, गमयतीत्यर्थः ॥२३॥ घटादेह स्वो दीर्घस्तु वा ञिणम्परे ॥ १. २. २४ ॥ घटादीनां धातूनां णौ परे ह्रस्वो भवति, जिणम्परे तु णौ दी? वा भवति । घटयति, अघाटि. अघटि. घाटघाट, घटंघटम, व्यययति, अव्याथि, अव्यथि, व्याथंव्या व्यर्थव्यथम , हिडयति, अहीडि, अहिडि, हीडंहोडम् , हिडंहिडम् , अक्षाञ्जि, प्रक्षञ्जि, क्षाजंक्षाजं, क्षजंक्षजम् , अदाक्षि, अदक्षि, दाक्षंदाक्षम् , दक्षंदक्षम् , क्षञ्जिदक्ष्यादीनां घटादिपाठबलादनुपान्त्यस्यापि वा दीर्घः । वा जिणम्पर इत्येव,-हस्वविकल्पेन सिद्ध दीर्घग्रहणं हेडेरिकारस्य दीर्घत्वार्थम, ह्रस्वविकल्पे हि पक्षे एकारश्रुतिः स्यात, णिग्यव्यवहितेऽपि णौ प्रिणम्परे दीर्घत्वार्थ च । णिगव्यवाये, शमयन्तं प्रयुङ्क्ते, णिग् तदन्तात् औ णमि, प्रशामि, अशमि, शामंशामम् , शमंशमम् । यब्यवाये,-शंशमयतेनौ णमि च अशंशामि, अशंशमि, शंशामशंशामम् , शंशमंशंशमम् । अत्र योऽसौ णौ णिलृप्यते यश्च यडोऽकारस्तस्य स्थानिवद्भावेन घटादीनां व्यवहितत्वात आनन्तयं नास्तीति । त्रिणम्परे णौ न स्याद् ह्रस्वविकल्पः । दीर्घग्रहणे तु दीर्घविधि प्रति स्थानिवद्भावप्रतिषेधादानन्तर्यमेवेति सिध्यति । घटिष् चेष्टायाम , क्षजुङ् गतिदानयोः, व्यथिष् भयचलनयोः, प्रथिष् प्रख्याने, म्रदिष् मर्दने, स्खदिष् खदने, कदुङ् कदुङ् क्लदुङ् वैक्लव्ये, कपिष् कृपायाम् , नित्वरिष् संभ्रमे, प्रसिष् विस्तारे, दक्षि हिंसागत्योः, श्रां पाके, स्मृआध्याने, द भये, न नये, ष्टकस्तक प्रतीघाते, चक तृप्तौ च, अंक कुटिलायां गतौ, कखे हसने, अग अक्वत, रगे शङ्कायाम् , लगे सङ्गे, हगे, ह्नगे, षगे, सगे, ष्टगे, स्थगे संवरणे, वटभट परिभाषणे, गट नत्ती, गड सेचने, हेड वेषने, लड जिह्वोन्मथने, फणकणरण गतौ, चण हिंसादानयोश्च, शणश्रण दाने, स्नथ, क्नथ, कथ, क्लथ हिसार्थाः, छद ऊर्जने, मदै हर्षग्लपनयोः, ष्टनस्तध्वन शब्दे, स्वन अवतंसने, चन हिंसायाम् , ज्वर रोगे, चल कम्पने, हल हल चलने, ज्वल दीप्तौ चेति घटादयः, फणिमेके घटादिमनिच्छन्तो गतावपि फाणयतीत्याहुः ॥२४॥ न्या० स० घटादेह्रस्वोc-हेडेरिकारस्य दीर्घत्वार्थमिति-न च वाच्यं क्षजेरपि दीर्घत्वार्थं यतस्तस्याऽनेन ह्रस्वविकल्पसामर्थ्यादेव अनुपान्त्यस्यापि 'णिति' ४-३-५०
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy