SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ पाद-२, सूत्र-६-८] श्रीसिद्धहेमचन्द्रशब्दानुशासने चतुर्थोऽध्यायः [१०६ न्या० स०-वापगु०-अपगारमपगारमिति-अभीक्ष्णमपगय अपगुरणं पूर्व वा । ननु रुणम् प्रत्ययेनैव आभीक्ष्ण्यस्योक्तत्वात् द्वित्वं न प्राप्नोति ? न, शब्दशक्तिस्वाभाव्यात् केवलख्णम् आभीक्ष्ण्यं न द्योतयतीति द्वित्वमपेक्षते । दीङः सनि वा ॥ ४. २. ६ ॥ दोङः सनि परे आत्वं वा भवति । दिदासते, दिदीपते, उपदिदासते, उपदिदीपते ॥६॥ यबक्ङिति ॥ ४. २. ७॥ दीडो यपि अक्ङिति च प्रत्यये विषयभूते आकारोऽन्तादेशो भवति । उपदाय, उपदाता, अवदाय, उपदातुम् , उपदातव्यम् , उपादास्त । विषयसप्तमीनिर्देशात्पूर्वमेवात्वे सति ईषदुपादानः उपादायो वर्तते इत्यत्र आकारान्तलक्षणोऽनः घ च भवति । ___ यबक्डितीतो किम् ? दोनः, उपदीयते, उपदेदीयते, सानुबन्धनिर्देशाद्यङ्लुपि न भवति,-उपदेदेति ।।७॥ न्या० स०-यबक्ङिति-ईषदुपादान इति-ईषदऽनायासेनोपादीयते 'शासयुधि' ५-३-१४१ इत्यनः । उपदायो वर्तत इति-यदा उपादानमिति भावविवक्षा तदा 'युवर्ण' ५-३-२८ इत्यऽल्विषये आत्वे भावाऽकोंर्घत्र , यदा तु उपदीयते इति कर्तृ विवक्षा तदाऽपि णकविषये आत्वे 'तन्व्यधी' ५-१-६४ इति णः, एतदपि विषयव्याख्याफलम् । ननु णं बाधित्वा उपसर्गाद् विशेषेण 'उपसर्गादातः ५-३-११० इति डो भविष्यतीति वाच्यं? न, यतस्तस्मिन् कर्तव्ये बाहुलकादात्वं नेष्यते इति महाभाष्येऽभाषिष्ट । घञ्च भवतीति-ननु घत्रः कथमाकारान्तलक्षणत्वमादन्तेभ्योऽप्यन्यत्रापि सामान्येन तस्य विधानात् ? उच्यते, घोप्याकारान्तलक्षणत्वं सामान्यमऽस्ति, यतः आकाराऽभावे ईदन्तत्वादऽल् स्यात् । मिग्मीगोखलचलि ।। ४.२.८ ॥ मिनोतिमीनात्योर्यपि खलचल्वजितेऽविडति च प्रत्यये विषयभूत प्राकारान्तादेशो भवति । निमाय, निमाता, निमातुम् , निमातव्यम् , न्यमासीत् । मोग-प्रमाय, प्रमाता, प्रमातुम, प्रमातव्यम् , प्रामासीत् । प्रखलचलीति किम् ? ईषनिमयः, दुष्प्रमयः । अचि-मयः, आमयः । अलि-निमयः, प्रमयः । सानुबन्धनिर्देशो यङ्लुपनिवत्त्यर्थः । निमेमेति, प्रमेमेति । यबक्तिीत्येव,-निमितः, प्रमीतः, निमेमीयते, प्रमेमीयते । मिग्मीग इति किम् ? मीच हिंसायामिति देवादिकस्य माभूत । मेता, मेतुम् । अस्याप्यात्वमिच्छन्त्यन्ये । माता, मातुम् ॥८॥ - न्या० स०-मिग्मीगो०-निमायेति-तृच्विषये आत्वे 'तन्व्यधी' ५-१-६४ इति णे निमाय इति विसर्गान्तमपि, तर्हि निमातेति कथम् ? उच्यते, असरूपत्वात्तचपि । देवादिकस्येति-उपलक्षणत्वान्मीणगतावित्यस्यापि ।
SR No.032129
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages512
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy