SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ ६१४ ] बृहवृत्ति-लघुग्याससंवलिते [पा० २. सू० १५३-१५५.] यत्परिमाणमस्य यावान्, एवं तावान् ? एतावान् ? 'यत्तदेतदो डावादिः' [७. १. १४६.] इति डावतौ भविष्यति ।। १५२ ।। इदं किमीत्की ॥ ३. २. १५३ ॥ ___इदंशब्दः किंशब्दश्च दृक्दशदक्षेषत्तरपदेषु परेषु यथासंख्यमीकाररूपः कीकाररूपश्च भवति । अयमिव दृश्यते ईदृक्, ईदृशः, ईदृक्षः, क इव दृश्यते । कीदृक्, कीदृशः, कीदृक्षः, कथं इदं किं वा परिमाणमस्य इयान् कियान् ? 'इदंकिमोऽतुरिय किय चास्य' [७. १. १४८.] इति भविष्यति ।। १५३ ।। अनञः क्त्वो यप् ॥ ३. २. १५४ ॥ नवजितादव्ययात्पूर्वपदाद्यत्परमुत्तरपदं तदवयवस्य क्त्वाप्रत्ययस्य यवादेशो भवति । प्रकृत्य, प्रहृत्य, उच्चैःकृत्य, नानाकृत्य । निज इति10 किम् ? अकृत्वा, अहृत्वा, परमकृत्वा, अनञ इति नसदृशमव्ययं गृह्यत इति इह नजोऽनव्ययाच्च न भवति । उत्तरपदस्येत्येव ? अलं कृत्वा, खलु कृत्वा ।। १५४ ।। न्या० स०--अनञः क्त्वो०। उच्चैःकृत्य इत्यत्र 'कृगोऽव्यय' [ ५. ४. ८४. ] इति क्त्वा। नानाकृत्य इत्यत्र तु 'स्वाङ्गतश्च्व्य र्थ' [५. ४. ८६. ] इत्यनेन । परम-15 कृत्वेति । परमं च तत् कृत्वा चेति कार्य । 'सन्महत्' [ ३. १. १०७.] इति समासः। परमं करणं पूर्व वा, परमस्य करणमित्यत्र तु समासो न स्यात् 'तृप्तार्थपूरण' [३.१.८५.] इत्यादावऽव्ययद्वारेण निषिद्धत्वात् षष्ठीसमासस्य ।। ३. २. १५४ ।। पृषोदरादयः॥ ३. २. १५५ ॥ पृषोदर इत्येवंप्रकाराः शब्दा विहितलोपागमवर्णविकाराः शिष्ट:20 प्रयुज्यमानाः साधवो भवन्ति । पृषदुदरमुदरे वास्य पृषोदरः, पृषत उदरं पृषोदरम्, पृषत उद्वानं पृषोद्वानम्, एवं पृषोद्धारम्,-अत्र तकारलोपो निपात्यते । जीवनस्य जलस्य मूतः पुटबन्धः, जीमूतः, अत्र वनस्य लोपः, वारिणो वाहको बलाहकः, अत्र पूर्वपदस्य बः उत्तरपदादेश्च ल आदेशः, प्राध्यायन्ति तमिति ाढयः, अत्र ध्यस्य ढ्यादेशः, कृ ण दास्यते नास्यते दभ्यते25 च खलि, दुष्टो दासो नासो दम्भ इति वा दूडासः, दूणासः, दूडभः, दुष्टं ध्यायति दूढयः, एषु पूर्वपदस्य दुसो दूभावः उत्तरपदादेश्वडत्वणत्वढत्वानि दम्भेनलोपश्च ।।
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy