SearchBrowseAboutContactDonate
Page Preview
Page 624
Loading...
Download File
Download File
Page Text
________________ [पा० २. सू० ८६-६१.] श्रीसिद्धहेमचन्द्रशब्दानुशासने तृतीयोऽध्यायः [ ५६१ ददित्यस्यापवाद: 'स्वरादुपसर्गात्' [४. ४. ६.] इति दा इत्यस्य त् इत्यादेशः । दागस्तु निदातुमारब्धं 'प्रारम्भे' [ ५. १. १०.] क्तः । 'निविस्वन्ववात्' [४. ४. ८. ] विकल्पेन त् ॥ ३. २. ८८ ।। अपील्वादेवहे ॥ ३. २. ८६ ॥ पील्वादिजितस्य नाम्यन्तस्य वहे उत्तरपदे परे दीर्घोऽन्तादेशो भवति । 5 वहतीति वहम्, 'अच्' [५. १. ४६.] इत्यच् । ऋषीणां वहम्-ऋषीवहम्, मुनीवहम्, कपीवहम्, एवं नामानि नगराणि । घान्ते तु वहशब्दे ऋषीवहः, मुनीवहः, कपीवहः । अपील्वादेरिति किम् ? पीलुवहम्, दारुवहम्, चारुवहम् । नामिन इत्येव ? पिण्डवहम्, काष्ठवहम् ।। ८६ ।। न्या० स०--अपील्वा०। अत्र वहशब्दोऽजन्तो घान्तश्च गृह्यते लिङ्गाच्च10 विशेषो वाच्यः ।। ३. २.८६ ।। शुनः ॥ ३. २. ६० ॥ श्वन् इत्येतस्योत्तरपदे परे दीर्घोऽन्तादेशो भवति । शुनो दन्तः श्वादन्तः एवं श्वादंष्ट्रा, श्वाकर्णः, श्वाकर्दः । श्वाकूर्दः, श्वावराहम् । बहुलाधिकारात्क्वचिद्विकल्पः श्वापुच्छम्, श्वपुच्छम् । क्वचिद्विषयान्तरे-शुनः15 पदमिव पदमस्य श्वापदम् व्याघ्रादिः, शुनः पदं-श्वपदम् । क्वचिन्न भवतिश्वफल्कः श्वमुखः ।। ६० ।। न्या० स०--शुनः। श्वापदम् इत्यत्र बाहुलकानपुसकत्वमऽन्यथा देहिनामत्वात् पुस्त्वं स्यात् ।। ३. २. ६० ।। एकादश षोडश षोडन् षोढा षड्ढा ॥ ३. २. ६१ ॥ 20 एकादयः शब्दा दशादिषु उत्तरपदादिषु कृतदीर्घत्वादयो निपात्यन्ते । एकोत्तरा दश, एकं च दश च वा एकादश, अत्रकस्य दशशब्दे उत्तरपदे दीर्घः, षडुत्तरा दश, षट् च दश च वा षोडश,-अत्र षषोऽन्तस्योत्वम् उत्तरपददकारस्य च डकारः, षड् दन्ता अस्य षोडन्, अत्र दन्तशब्दस्य दत्रादेशे कृते दस्य डत्वं च षषोऽन्तस्योत्वम्, एवं षोडन्तौ, षोडन्तः, स्त्रियां तु षोडती, अन्ये तु दत्रादेशे25
SR No.032128
Book TitleSiddha Hemchandra Shabdanushasan Bruhad Vrutti Part 01
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Religious Trust
Publication Year1986
Total Pages650
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy